________________
२००
जैन पूजा पाठ सग्रह
उदभूत भीषण जलोदरभार भुग्नाः, शोच्यां दशासुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोनृतदिग्धदेहा, मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥ आपादकण्ठ मुरुशृङ्खलवेष्टिताङ्गा, गाढ़ बृहन्निगड़कोटिनिघृष्टजंघाः । त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४६ ॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसंग्रामवारिधि महोदरबन्धनोत्थम् तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं प्रतिमानधीते ॥४७॥ स्तोत्र खजं तव जिनेन्द्र गुणैर्निबद्धां, भक्त्या मया विविधवर्णविचित्र पुष्पाम् धत्ते जनो य इह कण्ठगता - मजल, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४८॥
इति श्री मानवुङ्गाचाय विरचित भक्तामर स्तोत्रं समाप्तम् ।