SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ क्षणभंगुरपना युक्तिसे बाधित होता है तो भी क्षणभंगुरताको ही मानता है । यह साहसियोंमें भी महासाहसी है। क्योंकि, यह सर्वथा ही विचार न करता हुआ धृष्टतासे कार्य करनेवाला है । इस प्रकार इस कारिकाका संक्षिप्त अर्थ है। HT विवृतार्थस्त्वयम्। चौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति;न पुनमौक्तिककणनिकराऽनुस्यूतैकसूत्रवत्त दन्वयिनमेकम् । तन्मते येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतं तस्य निरन्वयविनाशान्न तत्फलोपभोगः। यस्य च फलोपभोगस्तेन तत्कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः स्वकृतकर्मफलाऽनुपभोगात् । उत्तरज्ञानक्षणस्य चाऽकृतकर्मभोगः स्वयमकृतस्य परकृतस्य कर्मणः फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः । तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः। वन्धानुलोम्यान्चेत्थमुपन्यासः । तथा भवभङ्गदोकपः। भव आर्जवीभावलक्षणः संसारस्तस्य भङ्गो विलोपः स एव दोपः क्षणिकवादे प्रसज्यते । परलोकाभावप्रसङ्ग ) इत्यर्थः परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति । तच्च प्राचीनज्ञानक्षणानां । || निरन्वयं नाशात्केन नामोपभुज्यतां जन्मान्तरे ? यच्च मोक्षाकरगुप्तेन “यच्चित्तं तच्चित्तान्तरं प्रतिसंधत्ते यथेदा-1 नीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरम्परासिद्धये प्रमाणमुक्तं तद् व्यर्थ; चित्तक्षणानां निरवशेषना-11. शिनां चित्तान्तरप्रतिसंधानाऽयोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयानुगामिना केनचित्क्रियते । यश्चानयोः प्रतिसंधाता स तेन नाभ्युपगम्यते । स ह्यात्माऽन्वयी। न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः; कार्यहेतुप्रसङ्गात् । तेन वादिनाऽस्य हेतोः स्वभावहेतुत्वेनोक्तत्वात् । स्वभावहेतुश्च तादात्म्ये सति भवति । भिन्नकालभाविनोश्च चित्तचित्तान्तरयोः कुतस्तादात्म्यम् ? युगपद्भाविनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाऽभावापत्तिः। युगपद्भावित्वेऽविशिष्टेऽपि किमत्र नियामकं यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति ? अस्तु वा प्रतिसन्धानस्य जननमर्थः सोऽप्यनुपपन्नस्तुल्यकालत्वे हेतुफलभावस्याऽभावात् । भिन्नकालत्वे च पूर्वचित्तक्षणस्य विनष्टत्वादुत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम्? इति यत्किश्चिदेतत् । l अब इसका अर्थ विस्तारसे कहते है। बौद्धलोग विचारके क्षणोकी परंपराको ही केवल आत्मा मानते है। और मोतियोके प्रत्येक नगोंमें प्रवेश पानेवाले सूतके डोराके समान प्रत्येक क्षणके साथ सबंध रखनेवाले अनाद्यनंत ऐसे किसी एक नित्य आत्माको नहीं।
SR No.010452
Book TitleRaichandra Jain Shastra Mala Syadwad Manjiri
Original Sutra AuthorN/A
AuthorParamshrut Prabhavak Mandal
PublisherParamshrut Prabhavak Mandal
Publication Year1910
Total Pages443
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy