________________
पञ्चास्तिकायसमयसारस्य टीका ।
गश्च । तत्र विशेषग्राहि ज्ञानं । सामान्यग्राहि दर्शनम् । उपयोगश्च सर्वदा जीवादपृथग्भूत एव । एकास्तित्वनिवृत्तत्वादिति ॥
[४१ ] ज्ञानोपयोगविशेषाणां नामस्वरूपाभिधानमेतत् । तत्राभिनिवोधिकज्ञानं, श्रुतज्ञानमवधिज्ञानं, मनःपैय॑यज्ञानं, केवलज्ञानं, कुमतिज्ञानं, कुश्रुतज्ञानं, विभङ्गज्ञानमिति नामाभिधानम् । आत्मा खनन्तसर्वात्मप्रदेशव्यापिविशुद्धज्ञानसामान्यात्मा । स खल्वनादिज्ञानावरणकर्मच्छन्नप्रदेशः सन्, यत्तदावरणक्षयोपशमादिन्द्रियानिन्द्रियावलम्बाच्च मूर्तीमूर्तद्रव्यं विकलं विशेषेणाऽवबुध्यते तदाभिनिवोधिकज्ञानम् । यत्तदावरणक्षयोपशमादनिन्द्रियावलम्बाच्च मूर्तामूर्तद्रव्यं विकलं विशेषेणावबुध्यते तत् श्रुतज्ञानं । यत्तदावरणक्षयोपशमादेव मूर्तद्रव्यं विकलं विशेषेणावबुध्यते तदवधिज्ञानम् । यत्तदावरणक्षयोपशमादेव परमनोगतं मूर्तद्रव्यं विकलं विशेषेणावबुध्यते तन्मनःपर्ययज्ञानम् । यत्सकलावरणात्यन्तक्षये केवल एव मूर्त्तामूर्तद्रव्यं सकलं विशेषेणाववुध्यते तत्स्वाभाविकं केवलज्ञानम् । मिथ्यादर्शनोदयसहचरितमाभिनिवोधिकज्ञानमेव कुमतिज्ञानम् । मिथ्यादर्शनोदयसहचरितं श्रुतज्ञानमेव कुश्श्रुतज्ञानं । मिथ्यादर्शनोदयसहचरितमवधिज्ञानमेव विभङ्गज्ञानमिति स्वरूपाभिधानम् ॥ इत्थं मतिज्ञानादिज्ञानोपयोगाष्टकं व्याख्यातम् ॥ ७ ॥
[४२ ] दर्शनोपयोगविशेषाणां नामस्वरूपाभिधानमेतत् । चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनमिति नामाभिधानम् । आत्मा घनन्तसर्वात्मप्रदेशव्यापिविशुद्धदर्शनसामान्यात्मा । स खल्वनादिदर्शनावरणकावच्छन्नप्रदेशः सन् यत्तदावरणक्षयोपशमाचक्षुरिन्द्रियावलम्बाच्च मूर्तद्रव्यं विकलं सामान्येनावबुध्यते तच्चक्षुर्दर्शनं । यत्तदावरणक्षयोपशमाचक्षुजितेतरचतुरिन्द्रियानिन्द्रियावलम्याच मूर्तामूर्तद्रव्यं विकलं सामान्येनावबुध्यते तदचक्षुदर्शनं । यत्तदावरणक्षयोपशमादेव मूर्तद्रव्यं विकलं सामान्येनाववुध्यते तदवधिदर्शनम् । यत्सकलावरणात्यन्तक्षये केवल एव मूर्तामूर्तद्रव्यं सकलं सामान्येनाववुध्यते तत्स्वाभाविकं केवलदर्शनमिति स्वरूपाभिधानम् ॥
[४३ ] एकस्यात्मनोऽनेकज्ञानात्मकत्वसमर्थनमेतत् । न तावानी ज्ञानात् पृथग्भवति, द्वयोरप्येकास्तित्वनिवृत्तत्वेनैकद्रव्यत्वात् । द्वयोरप्यभिन्नप्रदेशत्वेनैकक्षेत्रत्वात् । द्वयोरप्येकसमयनिर्वृत्तत्वेनैककालत्वात् । द्वयोरप्येकस्वभावत्वेनैकभावत्वात् । न चैवमुच्यमानेऽप्येकस्मिन्नात्मन्याभिनिवोधिकादीन्यनेकानि ज्ञानानि विरुध्यन्ते द्रव्यस्य विश्वरूपत्वात् । द्रव्यं हि सहक्रमप्रवृत्तानन्तगुणपर्यायाधारतयाऽनन्तरूपत्वादेकमपि विश्वरूपमभिधीयत इति ॥ [४४ ] द्रव्यस्य गुणेभ्यो भेदे, गुणानां च द्रव्यानेदे दोपोपन्यासोऽयम् । गुणा हि क्वचिदाश्रिताः ।
५ अव समन्तात् द्रव्यक्षेत्रकालभावैः परिमितित्वेन धीयते ध्रियते इत्यवधिः. २ परकीयमनोगतार्थ उपचारात् मनः, मनः पर्येति गच्छतीति मनःपर्ययः. ३ अयमात्मा निश्चयनयेनाखण्डैकदर्शनस्वभावोऽपि व्यवहारनयेन संसारावस्थायां निर्मलशुद्धात्मानुभूत्यभावोपार्जितेन कर्मणा कम्पितः सन् चक्षुर्दर्शनावरणक्षयोपशमे सति बहिरङ्गचक्षुर्द्रव्येन्द्रियावलम्बेन यन्मूर्तवस्तुनि निर्विकल्पसत्तावलोकेन पश्यति तच्चक्षुर्दर्शनम्. ४ शेपेन्द्रियनोइन्द्रियावरणक्षयोयशने सति वहिरङ्गचक्षुईव्येन्द्रियावलम्बनेन यन्मृर्तामूत वस्तु निर्विकल्पसत्तावलोकेन यथासंभवं पश्यति तदचक्षुर्दर्शनम्. ५ स एवात्माऽवधिदर्शनावरणक्षयोपशमे सति यन्मृत वस्तु निर्विकल्पसतावलोकेन प्रत्यक्षं पदयति तदवधिदर्शनं. ६ रागादिदोषरहितं चिदानन्दकखभावनिजशुद्धात्मानुभूतिलक्षणं निर्विकल्प यानेन निरवशेपकेवलदर्शनावरणक्षये सति जगत्त्रयकालत्रयवर्ति वस्तु वस्तुगतसत्तासामान्यमेकसमयेन पदयति तदनिधनमनन्तविपयं स्वाभाविकं केवलदर्शनं भवति. ७ आत्मा. ८ आत्मज्ञानयोः.