________________
पञ्चास्तिकायसमयसारस्य टीका ।
प्रसिद्धाः । तथापि जीवस्य वक्ष्यमाणोदाहरण प्रसिद्ध्यर्थमभिधीयन्ते । गुणा हि जीवस्य ज्ञानानुभूतिलक्षणा शुद्धचेतना, कार्यानुभूतिलक्षणा कर्मफलानुभूतिलक्षणा चाशुद्धचेतना, चैतन्यानुविधायिपरिणामलक्षणः सेविकल्पनिर्विकल्परूपः शुद्धाशुद्धतया सकलविकलतां दधानो द्वैधोपयोगश्च । पर्य्यायास्त्वगुरुलघुगुणहानिवृद्धिनिर्वृत्ताः शुद्धाः । सूत्रोपात्तास्तु सुरनारकतिर्यङ्मनुष्यलक्षणाः परद्रव्यसंबन्धनिर्वृत्तत्वादशुद्धाचेति ॥
[१७] इदं भावनाशाभावोत्पाद निषेधोदाहरणम् । प्रतिसमयसंभवद्गुरुलघुगुणहानिवृद्धि निर्वृत्तस्वभावपर्य्यायसंतत्यविच्छेदकेनैकेन सोपधिना मनुष्यत्वलक्षणेन पर्यायेण विनश्यति जीवः । तथाविधेन देवत्वलक्षणेन नारकतिर्य्यक्त्वलक्षणेन चान्येन पर्यायेणोत्पद्यते । न च मनुष्यत्वेन नाशे जीवत्वेनाऽपि नश्यति । देवत्वादिनोत्पादे जीवत्वेनाप्युपपद्यते । किंतु सदुच्छेदमसदुत्पादमन्तरेणैव तथा विवर्तत इति ॥
[ १८ ] अत्र कथंचिद्वययोत्पादवत्वेऽपि द्रव्यस्य सदा विनष्टानुत्पन्नत्वं ख्यापितं । यदेव पूर्वोत्तरपर्याय विवेकसंपर्कापादितामुभयीमवस्थामात्मसात् कुर्वाणमुच्छिद्यमानमुत्पद्यमानं च द्रव्यमालक्ष्यते । तदेव तथाविधोभयावस्थाव्यापिना प्रतिनियतैकवस्तुत्वनिबन्धनभूतेन स्वभावेनाविनष्टमनुत्पन्नं या वेद्यते । पर्यायास्तु तस्य पूर्वपूर्वपरिणामोपमद्दत्तरोत्तरपरिणामोत्पादरूपाः प्रणाशसंभवधर्माणोऽभिधीयन्ते । तेच वस्तुत्वेन द्रव्यादपृथग्भूता एवोक्ताः । ततः पर्य्यायैः सहैकवस्तुत्वाज्जायमानं म्रियमाणमपि जीवद्रव्यं सर्वदानुत्पन्नाविनष्टं दृष्टव्यम् । देवमनुष्यादिपर्यायास्तु क्रमवर्तित्वादुपस्थितातिवाहितस्वसमया उत्पद्यन्ते विनश्यन्ति चेति ॥
[१९] अत्र सदसतोरविनाशानुत्पादौ स्थितिपक्षत्वेनोपन्यस्तौ । यदि हि जीवो य एव म्रियते स एव जायते य एव जायते स एव म्रियते तदेवं सतो विनाशोऽसत उत्पादश्च नास्तीति व्यवतिष्ठते । यत्तु देवो जायते मनुष्यो म्रियते इति व्यपदिश्यते तदेवधृतकालदेव मनुष्यत्वपर्ययनिर्वर्तकस्य देवमनुष्यगतिनान्नस्तन्मत्रत्वादविरुद्धं । यथा हि महतो वेणुदण्डस्यैकस्य क्रमवृत्तीन्यनेकानि पर्वण्यात्मीयात्मीयप्रमाणावच्छिन्नत्वात् पर्व्वान्तरमगच्छन्ति स्वस्थानेषु भावभाजि परस्थानेष्वभावभाजि भवन्ति । वेणुदण्डस्तु सर्वेष्वपि पर्वस्थानेषु भावभागपि पर्वान्तरसंबन्धेन पर्व्वन्तरसंबन्धाभावात् अभावभाग्भवति । तथा निरवधित्रिकालावस्थायिनो जीवद्रव्यस्यैकस्य क्रमवृत्तयोऽनेके मनुष्यत्वादिपर्याया आत्मीयात्मीयप्रमाणावच्छिन्नत्वात् पर्य्यायान्तरमगच्छन्तः स्वस्थानेषु भवभाजः परस्थानेष्वैभावभाजो भवन्ति । जीवद्रव्यं तु सर्वपर्य्यायस्थानेषु भावभागपि पर्यायान्तरसंबन्धेन पर्यायान्तरसंबन्धाभावाभावभाग्भवति ॥
[२०] अत्रात्यन्तासदुत्पादत्वं सिद्धस्य निषिद्धम् । यथा स्तोककालान्वयिपु नामकर्मविशेपोदय
१ कर्मणां फलानि सुखादीनि कर्मफलानि तेषामनुभूति: अनुभवनं भुक्तिः सैव लक्षणं यस्याः सेति. २ ज्ञानदर्शनोपयोगः ३ निप्पन्न- ८ सविकारेण ५ पूर्वोत्तरपर्यायौ विवेकसंपक पूर्वपर्यायस्य मनुष्यत्वलक्षणस्य विवेकः विवेचनं विनाश इति यावत्, उत्तरपर्यायस्य देवत्वलक्षणस्य संपर्क: संबन्धः संयोगः उत्पाद इत्यर्थः, इति पूर्वोत्तरपर्यायविवेकसंपर्कों, ताभ्यां निष्पादिता या सा ताम् ६ उत्पादव्ययसमर्थाम्. ७ उपमर्दो विनाश:. ८ पर्यायाः. ९ परमार्थेन. १० कथ्यते. ११ आयुः प्रमाणम्. १२ उत्पादव्ययमात्रत्वात्. १३ स्वकीयप्रमाणपरिच्छेयात्. १४ उत्पत्तिभोक्तारः १५ विनाशभाजः भवन्ति १६ देवलक्षणोत्तर पय्यीय. संपन्न. १७ मनुष्यलक्षणपूर्व पर्याय संबन्धाभावान.