________________
४१८
सप्तदशपरिवर्तः । धारयति । बुड्वाधिष्ठानमिति। बुद्धरूपम्। अबड्वा वतायमिति। अवश्यं वतायम्। तथैव तत्कस्य हेतोरित्याशंक्याह। तथा ह्यस्येत्यादि। एकान्तनिष्ठत्वेन सर्वाकारज्ञतादिधर्मार्थ जीवितत्यागान्मार्गेऽन्वयज्ञानमित्याह। पुनरपरमित्यादि। तत्र कायत्यागादात्मपरित्यागः। चित्तत्यागाज्जीवितपरित्यागः। उभयाभिधानं व्यस्तसमस्तात्मपरित्यागज्ञापनार्थमित्यन्ये । प्रेम स्नेहः। गौरवं बहुमानता। ममाप्येष (p. 339, 6) इत्यनेन विसंयोगप्राप्तः सर्वधर्मपरिग्रहसभागता ज्ञापिता। यथोक्तज्ञानमेव विस्तारयनाह। पुनरपरमित्यादि। तथैव तत्कस्य हेतोरित्याशंक्याह । तथा हि तेनेत्यादि। यथोक्तरेवाकारैरचिन्त्योपायवतां बोधिसत्त्वानां धर्मनैराश्यद्योतकैः साक्षात्कृताः षोडशक्षणा दर्शनमार्गस्थाऽवैवर्तिकबोधिसत्त्वलक्षणं ग्राह्यम्। तथाचोक्तम् । रूपादिसंज्ञाव्यात्तिर्दाढ्यं चित्तस्य हौनयोः । यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ ४७ ॥ कायचेतोलघुत्वञ्च कामसेवाभ्युपायिको । सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥४८॥ स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके । समरे मत्सरादौ च नेति योगानुयोगयोः ॥ ४६ ॥ विहारप्रतिषेधश्च धर्मस्याणोरलब्धता। निश्चितत्वं स्वभूमौ च भूमित्रितयसंस्थितिः ॥ ५० ॥ धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः । अवैवर्तिकलिङ्गानि हमार्गस्थस्य धीमतः॥५.१॥ इति