________________
लेखाङ्कः-४३-६॥ नो धत्ते परलोकतो भयमहो हंसापलापे कृती। उच्चैरास्तिकचक्रवालमुकुटश्रीवस्तुपालस्फुट
भेजे नास्तिकतामयं तव यशःपूरः कुतस्त्या(*)मिति ॥१॥ कोपाटोपपरैः परैश्चलचमूरगत्तुरङ्गक्षत__ क्षोणीक्षोदवशादशोपि जलधिः श्रीस्तम्भतीर्थे पुरे । स्वेदाम्भस्तटिनीघटाघटनया श्रीवस्तुपाल स्फुर
तेजस्तिग्मगभस्तितप्ततनुभिस्तैरेव सम्पूरितः ॥ २॥ दिग्यात्रोत्सववीरवीरधवलक्षोणीधवाध्यासितं
माज्यं राज्यरथस्य भारमभितः स्कंधे दधल्लीलया । भाति भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं
नश्लाघ्यः स्वयमश्वराजतनुजः कामं सवामा स्थितिः॥३॥ लावण्यांग इति द्युतिव्यतिकरैः सत्याभिधानोऽभवद् __ भ्राता यस्य निशानिशांतविकसचन्द्रप्रकाशाननः । शंके शंकरकोपसंभ्रमभरादासीदनंगः स्मरः
साक्षादंगमयोऽयमित्यपहतः स्वर्गांगनाभिलघु ॥४॥ रक्तः सद्गतिभावभाजि चरणे श्रीमल्लदेवो परो
यभ्राता परमेष्टिवाहनतया प्राप्तः प्रतिष्ठा पराम् । खेलन्निर्मलमानसे न समयं कापि श्रयन् पंकिलं
विश्वे राजति राजहंस इव यः संशुद्धपक्षद्वयः ॥ ५ ॥ सोऽयं तस्य सुधाहरस्य कवितानिष्टः कनिष्टः कृती
बंधुर्वधुरचुद्धिवोधमधुरः श्रीवस्तुपालाभिधः । ज्ञानांभोरुहकोटरे भ्रमरतां सारंगसाम्यं यशः
सोमे सारितुलां च यस्य महिमक्षीरोदधौ स्वं दधौ ||६||(*) इंदुविदुरपां सुरेश्वरसरिडिंडीरपिंडः पति
सां विद्रुमकंदलः किल विभुः श्रीवत्सलक्ष्मानमः ।