________________
प्राचीन जैनलेखसंग्रहे
श्रीमन्नाभिनरेन्द्रसूनुरमरश्रेणीसमासेवितो देयान्निर्निभभक्तियुक्तमनसां मुख्यानि सौख्यानि सः ॥ १ ॥ श्रीवर्द्धमानस्य वभूव पूर्वं पूर्वादित्परः सुधर्मा | गतोऽपि सिद्धिं तनुते जनानां सहायकं यः प्रतिधर्ममार्गम् || २ || ततोऽपि पट्टे नवमे बभूवुः श्रीसूरयः सुस्थितनामधेयाः । येभ्यः क्रियाज्ञानगुणाकरेभ्यो गच्छोऽभवत् कोटिकनामतोऽयम् । ३ ततो ये वज्रशाखायां कुले चान्द्रेऽत्र सूरयः ।
तेषां प्रभावं प्रत्येकं वक्तुं शक्नोति कः सुधीः ॥ ४ ॥ पट्टे युगाब्धमिते क्रमेणाभवन् जगच्चंद्रगणाधिपास्ते । येषां सदाचाम्टतपोविधानात् तपा इति प्राग् विरुद्धं तदाभूत् ॥५॥ तेषां शे क्रमतस्तपःक्रियाज्ञानशुद्धिपरिकलितः । रसवाणमिते पट्टे संजातः सुविहितोत्तंसः || ६ || आनन्दविमलसूरिः श्रुतोऽपि चित्ते करोति मुद्रमतुलाम् । कृमतांधकूपमग्नं स्वबळाज्जगदुद्धृतं येन ॥ ७ ॥ तत्पट्टे मद्दिमभरख्याताः श्रीविजयदानसूरीशाः । येभ्यः समस्तविधिना प्रससार तपागणः सम्यक् ॥ ८ ॥ तेषां पट्टे कटाः शांतरसा पूर्णहृदय कासाराः । श्रीहीरविजयगुरवः प्रभवोऽभुवंस्तपागच्छे ॥ ९ ॥ साहिश्रीमदकव्वरस्य हृदयोच्य यः पुरा रोपितः
संसिक्तोऽपि चयैर्वचोऽमृतरसैः कारुण्यकल्पद्रुमः । दत्तेऽद्यापि फलान्यमारिषहोद्योपादिकानि स्फुटं श्रीशत्रुंजयतीर्थमुक्त करता सन्मानमुख्यानि च ॥ १० ॥ hi पट्टे कंसाः श्रीविजयसेनसृरिवराः । संप्रति जयन्ति वाचकचुधमुनिगणग्रन्थपरिकरिताः ॥ ११ ॥
२९२
1