________________
२७२
प्राचीनजैनलेखसंग्रहे श्रीपरमगुरूणामादेशप्रसादं महाराजश्रीभारमल्लजिदाग्रहानुगामिनमासाद्य श्रीभक्तामरादिस्तुतिभक्तिप्रसन्नीभूतश्रीऋपभदेवोपासकसुराविशेषाज्ञया प्रथमविहारं श्रीकच्छदेशेऽत्रचक्रे तत्र सं० १६५६ वर्षे श्रीभुजनगरे आवं चतुर्मासकं द्वितीयं च रायपुरवन्दिरे तदा च श्रीकच्छमच्छुकाण्ठापश्चिमपञ्चालबागडजसलाम ण्डलायनेकदेशाधीशेर्महाराज श्रीखेगारजी पहालङ्करणैयाकरणकाव्यादिपरिज्ञानतथाविधैश्वर्यस्थैर्यधैर्यादिगुणापहस्तितसरस्वतीमहानवस्थानविरोधत्याजकर्यादववंशभास्करमहाराजश्रीभारमल्लजीराजाधिराजैः[विज्ञप्ताः ] श्रीगुरवस्ततस्तदिच्छापूर्वकं संजग्मि. वांसः । काव्यव्याकरणादिगोष्टया स्पष्टाष्टावधानादिप्रचण्डपाण्डित्यगुणदर्शनेन च रञ्जितै राजेन्द्रः श्रीगुरूणां स्वदेशे जी वामारि प्रसादश्चक्रे।
तद्व्यक्तिर्यथा सर्वदा हि गवामारिः पपणाऋषिपञ्चमीयुतनवदिनेषु तथा श्राद्धपक्षे सर्वैकादशीरविवारदर्शेषु च तथा महाराजजन्मदिने राज्यदिने सर्वजीवापारिरिति सार्वदिकी सार्वत्रिकी चोरोपणा जज्ञे । तदनु चैकदा महाराजैः पाल्लविधीयमाननभोवापिकविप्रविप्रतिपत्ता तच्छिक्षाकरणपूर्वकं श्रीगुरुभिः कारिता श्री. गुरूक्ता नभस्यवार्पिकव्यवस्थापिकासिद्धान्तार्थयुक्तिमाकर्ण्य तुष्टो राजा जयवादपत्राणि७ स्वमुद्राङ्कितानि श्रीगुरुभ्यः प्रसादादुपढोकयति स्म प्रतिपक्षस्य च पराजितस्य तादृशराजनीतिमासूत्र्य श्रीराम इव सम्यग न्यायधम सत्यापितवान् । किञ्च कियदेतदस्मगुरूणाम् ।
यतः।