________________
यौवनोल्लासः तृतीयः-श्रीक्रमः सुन्दर्यम्बासमाश्लेषसुखिताय नमो नमः । प्रकाशानन्दनाथाय गुरवे परमाय मे ॥ मिश्राम्बानयनोल्लास विश्रान्तमनसे नमः । आनन्दानन्दनाथाय गुरवे परमेष्ठिने ॥ यदिदं श्रीगुरुस्तोत्रं 'स्वस्वरूपोपलक्षणम् । बालभावानुसारेण ममेदं हि विचेष्टितम् ।
मातृवात्सल्यसदृशं त्वया देवि विधीयताम् ॥ एवमादिभिः अन्याभिश्च यथाऽवकाशं स्तुतिभिः अखिललोकमातरमभिष्ट्रय, शक्तिं पूजयेत् ॥
सुवासिन्याः पूजनम् यथा—प्राङ्निमन्त्रितां षोडशाब्दपरत आत्रिंशद्वर्षदेशीयां सुवासिनीमभ्यक्तां गौरीरूपिणी लक्षण्यां दीक्षितां भक्तां अन्यैरप्युक्तगुणैरलङ्कृतां कुलाष्टकपरिगणितां अलाभे चातुर्वान्तर्गतां परकीयां शक्तिं स्वीयां वा समानीय प्रक्षाळितपादां आसने समुपवेशयेत् । सा चेददीक्षिता तदैष शोधनविधिः । ऐं ह्रीं श्रीं ऐं क्लीं सौः त्रिपुरायै नमः इमां शक्तिं पवित्रीकुरु मम शक्तिं कुरु स्वाहा । इत्यभिषेकमन्त्रपूर्व सामान्यसलिलेन त्रिः शक्तिं प्रोक्ष्य, ३ ॐ,
शान्तिरस्तु शिवं चास्तु प्रणश्यत्वशुभं च यत् ।
यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥ इत्युच्चार्य तस्याः कर्णे हृल्लेखां जपेत् । अथ तां देवीरूपां विभाव्य ऐं ह्रीं श्रीं ऐं क्लीं सौः शक्त्यै अमुकं कल्पयामि नम इति मन्त्रेण हरिद्राकुङ्कुमचन्दनपट्टवासःपुष्पधूपदीपनैवेद्यताम्बूलानि दद्यात् । सति विभवे वसनाभरणादीनि च । ततो मूलेन वक्ष्यमाणेन समष्टिमन्त्रेण च क्रमेण श्रीदेव्यै आवरणदेवताभ्यश्च दत्तपुष्पाञ्जल्यास्तस्याः करे सोपादिममध्यममुद्राचुलुकमितक्षीरपात्रं समर्पयेत् । साऽप्युत्थाय तत्कपालमुद्रया
1 स्वगुरोरुप-अ१.