________________
यौवनोल्लासः तृतीयः-श्रीक्रमः यदक्षरैकमात्रेऽपि संसिद्ध स्पर्धते नरः । रवितायेन्दुकन्दर्पशङ्करानलविष्णुभिः ॥ ३ ॥ यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरी देवी महाश्रीसिद्धमातृकाम् ॥ ४ ॥ यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् । ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ ५ ॥ यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।। ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ ६ ॥ अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् । ज्येष्ठाङ्गबाहुहृत्पृष्ठकटिपादनिवासिनीम् ॥ ७ ॥ तामीकाराक्षरोद्धारां सारात् सारां परात् पराम् । प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ ८ ॥ अद्यापि यस्या जानन्ति न मनागपि देवताः । केयं कस्मात् क्व केनेति सरूपारूपभावनाम् ॥ ९ ॥ वन्दे तामहम क्षय्यां क्षकाराक्षररूपिणीम् । देवी कुलकलो लासप्रोल्लसन्ती परां शिवाम् ॥ १० ॥ वर्गानुक्रमयोगेन यस्यां मात्रष्टकं स्थितम् । वन्दे तामष्टवर्गोत्थमहासिद्धयष्टकेश्वरीम् ॥ ११ ॥ कामपूर्णजकाराख्यश्रीपीठान्तर्निवासिनीम् । चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ १२ ॥ इति द्वादशभिः श्लोकैः स्तवनं सर्वसिद्धिकृत् । देव्यास्त्वखण्डरूपायाः स्तवनं तव 'तथ्यतः ॥ भूमौ स्खलितपादानां भूमिरेवावलम्बनम् । त्वयि जातापराधानां त्वमेव शरणं शिवे ॥ ज्येष्ठाझबाहुपादानमध्यस्वान्तनिवासिनीम् इति पाठान्तरम्. क्षय्यक्ष-इति पाठान्तरम्.
3 लोलप्रो-इति पाठान्तरम्. * राज्य-इति पाठान्तरम्.
। तद्यतः-इति च पाठ;
66