________________
ततः
यौवनोल्लासः तृतीयः -श्रीक्रमः
३
ऐं ह्रीं श्रीं कए ई लह्रीं नमः आत्मतत्त्वव्यापिनी ललिता तृप्यतु ॥ ह स क ह ल ह्रीं नमः विद्यातत्त्वव्यापिनी ललिता तृप्यतु ॥ सकल ह्रीं नमः शिवतत्त्वव्यापिनी ललिता तृप्यतु ॥ ऐं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं नमः सर्वतत्त्वव्यापिनी ललिता तृप्यतु ॥
३
७१
इति निमीलितनयनः क्षणमवस्थाय, श्रीदेवीं भुक्तवतीं विभाव्य, पूर्ववत् उपचारमन्त्रैः पानीयोत्तरापोशनकरप्रक्षाळनगण्डूषपाद्यादि कल्पयित्वा भोजनपात्रं नैर्ऋत्यां निरस्य, अस्त्रेण स्थलं संशोध्य, ततः पुनः प्राग्वदाचमनीयकर्पूरवीटिकादक्षिणाकर्पूरनीराजनानि दत्वा, सुवर्णादिभाजनलिखितं कुङ्कुमपङ्करेखाऽऽत्मकं अष्टदलकमलकर्णिकास्थापि - तमणिमयचषकपूरितं प्रथमं प्रज्वाल्य, पुष्पाक्षतैरभ्यर्च्य, उपचारमन्त्रपूर्वकं -
अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभम् । त्रिधा दीपं परिभ्राम्य कुलदीपं निवेदये ॥
इति चतुर्दशधा नवधा त्रिधा वा परिभ्राम्य दक्षभागे स्थापयेत् ॥
मन्त्रपुष्पम् अथ अलौ पुष्पाण्यादाय मन्त्रपुष्पम् । यथा--- शिवे शिवसुशीतळामृततरङ्गगन्धोल्लसन्नवावरणदेवते नवनवामृतस्यन्दिनि । गुरुक्रमपुरस्कृते गुणशरीरनित्योज्ज्वले
षडङ्गपरिवारिते कलित एष पुष्पाञ्जलिः ॥
इत्युक्त्वा पुष्पाञ्जलिं समर्पयेत् । इत्येते कतिचिच्चतुष्षष्ट्युपचारातिरिक्ता उपचारास्तु पूर्ववत् धूपदीपेतिसूत्रगतेनादिपदेन गृह्यन्ते ॥
कामकळाध्यानम्
अथ बिन्दुना मुखं बिन्दुद्वयेन स्तनौ सपरार्धेन योनिरिति कामकळाऽऽत्मिकां ध्यात्वा, सौः इति देवीशक्तिबीजं श्रीदेव्या हृदयत्वेन भावयेत् ।।