________________
यौवनोल्लास: तृतीयः-श्रीक्रमः ऐं ह्रीं श्रीं ललितायै आपोशनं कल्पयामि नमः ॥ इति नैवेद्याङ्गत्वेन आपोशनं दत्वा
ऐं ह्रीं श्रीं ललितायै नैवेद्यं कल्पयामि नमः ॥ इति निवेदयेत् ॥ ___गन्धादिनैवेद्यान्तं उपचारवस्तुपञ्चकं तु पृथिव्यादिमहाभूतपञ्चकरूपं क्रमेण भावयेत् । सर्वभूतात्मकत्वं च कर्पूरवीटिकायाः ॥
अथ पानीयोत्तरापोशनहस्तप्रक्षाळनगण्डूषाचमनकर्पूरवीटिकाश्चोपचारमन्त्रैः कल्पयित्वा-ऐं ह्रीं श्रीं द्रां द्रीं क्लीं ब्लू सः क्रों ड्कें सौः ऐं सर्वसङ्क्षोभिण्यादिनवमुद्राः प्रदी, षोडश्युपासनायां तु ऐं इति त्रिखण्डामपि प्रदर्शयेत् ॥
ततो ३ मूलान्ते ललिताश्रीपादुकां पूजयामि इति तत्त्वमुद्रासन्दष्ट द्वितीयशकलगृहीतविशेषार्यबिन्दुसहार्पितैः दक्षकरोपात्तज्ञानमुद्राधृतकुसुमाक्षतैः श्रीदेवीं त्रिः सन्तर्पयेत् । अनेनैव प्रकारेण सर्वासामावरणदेवतानां तर्पणं ज्ञेयम् ॥ इति देवीपूजनम् ॥
षडङ्गार्चनम् अथ श्रीदेव्यङ्गे अग्नीशादिकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना मूलेन षडङ्गयुवतीः पूजयेत् ॥
नित्यादेवीयजनम् ततो मध्यत्रिकोणस्य दक्षिणरेखायां वारुण्याद्यामेयान्तं क्रमेण अं आं इं ई उं इति, पूर्व रेखायां आमेयादीशानान्तं ऊ ऋ ॠ लं लं इति, उत्तररेखायां ईशानादिवारुण्यन्तं एं ऐं ओं औं अं इति, पञ्चपञ्चस्वरान् विभाव्य तेषु वामावर्तेनैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । बिन्दौ च षोडशं स्वरं अः इति विचिन्त्य महानित्याम् । यथाऐं ही श्री अंऐं स क ल ही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरी
नित्याश्रीपादुकां पूजयामि तर्पयामि नमः ॥ 1 मूलक-ब२. ब३. अ,