________________
नित्योत्सवः
इत्येतद्वासनारूपं अभेदं च परस्परम् ।
ज्ञात्वा श्रीगुरुवक्त्राब्जात् कृता पूजा महाफला ॥ मेरुमन्त्रश्च चतुरश्रादिचक्रनवकविशेषणगतैः लकारादिभिः अवयवैः ज्ञातव्यः ॥
___ चतुष्षष्टयुपचारार्चनम् अथ श्रीपरदेवतायाः चतुप्षष्टयुपचारानाचरेत् । तेषु अशक्तानां भावनया सामान्यायॊदकात् किंचित्किंचिदम्बाचरणाम्बुजे अर्पणबुद्धया पात्रान्तरे निक्षिपेत् । पुष्पाक्षतान्वा समर्पयेत् । भूषावरोपणाभ्यङ्गरूपमुपचारद्वयमपि मण्टपान्तर एव भावनीयम् , मज्जनादिषु तथा दर्शनात् , औचित्याच्च । अनयोः मण्टपादिशब्दस्य मन्त्रावयवत्वेन प्रवेशो न सम्भवति, अनुक्तत्वात् । मज्जनमण्टपप्रवेशादिषु मध्येमार्ग पीठे च मृदुलदुकूलास्तृतिश्च भावयितुमुचितम् । श्रीचक्रादवरोहणमपि, उत्तरत्रारोहणकथनात् । अभ्यङ्गादिषु यवनिकाभावनं च । उपचारमन्त्रशरीरं तु–अत्रादौ त्रितारी, ततश्चतुर्थ्यन्तं ललितेति पदं, अथामुकं कल्पयामि नमः इति । ललिता कामेश्वरी त्रिपुरसुन्दरी इति देवतानामपर्यायेषु सत्स्वपि सूत्रकारेण ललितापदग्रहणात् ललितापदप्रयोगः कार्यः । यथा
ऐं ह्रीं श्रीं ललितायै पाद्यं कल्पयामि नमः, आभरणावरोपणं, सुगन्धतैलाभ्यङ्गं, मज्जनशालाप्रवेशनं, मज्जनमण्टपमणिपीठोपवेशनं, दिव्यस्नानीयोद्वर्तनं, उष्णोदकस्नानं, कनककलशच्युतसकलतीर्थाभिषेकं (इह श्रीसूक्तादीनामावृत्तिः). धौतवस्त्रपरिमार्जनं, अरुणदुकूलपरिधानं, अरुणकुचोत्तरीयं, आलेपमण्टपप्रवेशनं, आलेपमण्टपमणिपीठोपवेशनं, चन्दनागरुकुङ्कुममृगमदकर्पूरकस्तूरीगोरोचनादिदिव्यगन्धसर्वाङ्गीणविलेपनं, केशभारस्य कालागरुधूपं, मल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुहळीपुन्नागकल्हारमुख्यसर्वर्तुकुसुममालाः, भूषणमण्टपप्रवेशनं, भूषणमण्टपमणिपीठोपवेशनं, नवमणिमकुटं, चन्द्रशकलं, सीमन्तसिन्दूरं, तिलकरत्नं, कालाञ्जनं, पाळीयुगळं, मणिकुण्डल
'तत्तन्मन्त्रमात्रं वा जपेत् । तथाच तन्त्रसारे " चतुष्षष्टयुपचाराणां अभावे तु मनुं जपेत् । तत्तदेव फलं विन्द्यात् साधकः स्थिरमानसः ॥” इति (भ) कोशे अधिकः ॥