________________
यौवनोल्लासः तृतीयः -- श्रीक्रमः
इति सदाशिवषोडशकलाः सम्पूज्य,- - अत्र ब्रह्मविष्णुरुद्राणां प्रत्येकं दशकलाः, ईश्वरस्य चतस्रः, सदाशिवस्य षोडशेति विवेकः । आहत्य कलाः अष्टाशीतिः ॥
ऐं ह्रीं श्रीं हसश्शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्वयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ नमः ॥
ऐं ह्रीं श्रीं प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु अधिक्षयन्ति भुवनानि विश्वा ॥ नमः ||
ऐं ह्रीं श्रीं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ नमः ॥
ऐं ह्रीं श्रीं तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवासः समिन्धते । विष्णोर्यत्परमं पदम् ॥ नमः ॥
ऐं ह्रीं श्रीं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं वेहि सिनीवालि गर्भं धेहि सरस्वति । गते अश्विनौ देवावाधत्तां पुष्करस्रजा || नमः ॥
एतेषु पञ्चमन्त्रेषु अन्त्यौ द्वौ द्विद्विगात्मकौ ॥
मूलविद्या -
ऐं ह्रीं श्रीं कए ई लह्रीं ह स क ह ल ह्रीं सकलह्रीम् ॥ नमः ॥
आहत्य षट् । पूर्वमुक्ता अष्टत्रिंशत् ततः पञ्चाशत्, ततः षट्, आहत्य मन्त्राः चतुर्नवतिः ॥
केषां चिन्मते
अखण्डैकरसानन्द' करे परसुधामनि ।
स्वच्छन्दस्फुरणामत्र निधेहि कुलनायिके || नमः ॥ अकुळस्थामृताकारे शुद्धज्ञानकरे परे ।
अमृतत्वं निधेयस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ नमः ॥
2 त्मिके – अ.
1 परे -अ, बं३, भ.
58
४९
s मातः - अ.