________________
नित्योत्सवः . .[शक्तिसङ्गमतन्त्रे नित्यनैमित्तिकपुरश्चरणादिव्यतिरिक्तेषु काम्येषु जपेषु गजाश्वादीनि चरासनान्युक्तानि । तदलाभे मृत्प्रकृतिकानि कुशप्रकृतिकानि वा आन्दोळिकादीनि वृक्षविशेषरूपाणि च कथितानि । विस्तरभिया न तद्वचनलेखः ॥]
ततः ऐं ह्रीं श्रीं रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम इति भूमौ पुष्पाञ्जलिं दद्यात् । ततः ऐं ह्रीं श्रीं समस्तगुप्तप्रकटसिद्धयोगिनीचक्रश्रीपादुकाभ्यो नम इति मूर्धनि बद्धाञ्जलिः स्ववामदक्षपार्श्वयोः क्रमेण पूर्ववत् श्रीगुरुपादुकामनुमुच्चार्य, पञ्चमुद्राभिः श्रीगुरुं महागणपतिमन्त्रेण च गणपतिं प्रणम्य ऐं ह्रीं श्रीं ऐं हः अस्त्राय फट् इत्यस्त्रमन्त्रेण मुहुरावृत्तेन अंगुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः देहे च व्यापकं कुर्यात् ॥
. श्रीचक्रपरिकल्पनम् अथ पुरतश्चतुर्विशत्यमुलिमितां भूमिमपहाय, गोमयेनोपलिप्ते शुचिनि समे हस्तमात्रस्थण्डिले यथायोग्यपरिमाणे सुवर्णरूप्यताम्रादिपट्टे वा क्षीरमिश्रितेन सिन्दूररजसा कुङ्कुमेन वा हेमादिलेखिनीगृहीतेन बिन्दुत्रिकोणवसुकोणदशारयुग्मचतुर्दशारकर्णिकावृत्ताष्टदळपुनःकर्णिकावृत्तषोडशदळमर्यादावृत्तत्रयचतुरश्रत्रितयात्मकं श्रीचक्रं विलिखेत् , विलेखयेद्वा । स च प्रकारः एतत्प्रकरणावसाने कथयिप्यते ॥
यन्त्रप्राणप्रतिष्ठा अथ सूत्रानुक्तामपि साम्प्रदायिकसम्मतां तन्त्रान्तरोदितां यन्त्रप्राणप्रतिष्ठा कुर्यात् । यथा—ऐं ह्रीं श्रीं श्रीचक्रस्य प्राणा इह प्राणाः श्रीचक्रस्य जीव इह स्थितः श्रीचक्रस्य सर्वेन्द्रियाणि श्रीचक्रस्य वाङ्मनःप्राणाः इह आयान्तु स्वाहा इति । एवमेव आत्मप्राणप्रतिष्ठाऽऽदौ सम्प्रदायः शरणीकार्यः ॥
यद्वा-काश्चनरूप्यपञ्चलोहरत्नस्फटिकगण्डकीशिलाद्युत्कीर्ण वक्ष्यमाणेन प्रतिष्ठाविधिना प्रतिष्ठापितं तत्स्वास्तीर्णपट्टवसने श्रीखण्डचन्दनादिनिर्मिते पीठे निवेशयेत् ॥
'मयं भागः (भ) कोशे नास्ति.