________________
६
नित्योत्सव:
सतीर्थे विधुप्रासे पुण्यारण्ये वनेषु च । मन्त्रदीक्षां प्रकुर्वाणां मार्क्षादीन् न शोधयेत् ॥
प्रकारान्तं च
सर्व वारा ग्रहाः सर्व नक्षत्राणि च राशयः । यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः || सन्तुष्टे च गुरौ तस्य मन्तुष्टाः सर्वदेवताः । गुरुं सन्तोषयेत् भक्त्या द्वयमेव तदा भवेत् ॥
द्वयं भोगमोक्षौ । एवकारः अप्यर्थः । अधिकारिभेदेन कालो यथा
मुमुक्षूणां सदा कालः स्त्रीणां कालस्तु सर्वदा || इति ॥
गुरुलक्षणम्
तन्त्रराजे..
सुन्दरः सुमुखः स्वस्थः सुलभा बहुतन्त्रवित् । असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः || सौन्दर्यमनवद्यत्वं रूपे सुमुखता पुनः । मेरपूर्वाभिभाषित्वं स्वच्छताऽजिह्मवृत्तिता ॥ सौलभ्यमप्यगर्वित्वं सन्तोषो बहुतन्त्रता । असंशयस्तत्त्वबोधः तच्छित्तत्प्रतिपादनात् ॥ नैरपेक्ष्यमवित्तेच्छा गुरुत्वं हितवेदिता । एवंविधो गुरुर्ज्ञेयस्त्वितर: गिप्यदुःखदः ॥
अजिह्मवृत्तिनेति छेदः । बहुतन्त्रता -- बहुतन्त्रवेदिता इत्यर्थः ॥
शिष्यलक्षणम्
तथा --
चतुर्भिराद्यैः सहितः श्रद्धावान् सुस्थिराशयः । अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः ॥