________________
२०४
नित्योत्सवः ऋप्यादीनामज्ञाने-अस्य श्रीअमुकमन्त्रस्य ब्रह्मणे ऋषये नमः इति शिरसि, गायत्र्यै छन्दसे नमः इति मुखे, अमुकदेवतायै नमः इति हृदये, ॐ बीजाय नमः इति गुह्ये, ही शक्तये नमः इति पादयोः, मम सर्वाभीष्टसिद्धये विनियोगाय नमः इति करसम्पुटे च न्यस्य, मूलेन त्रिर्व्यापकं कृत्वा, उक्तषडङ्गं कराङ्गयोः विन्यस्य, तत्तद्देवताऽनुगुणं ध्यात्वा, श्यामाक्रमोक्तान्यतमया मालया श्रीक्रमोक्तविधिना जप्त्वा स्तुवीत ॥
देवतास्तुतिः यथा--- सच्चित्सुखैकरूपं सकलजगद्भाससंश्रयीभूतम् । भक्तेप्वनुग्रहवशात् बहुधोपास्यात्मकं भजे वस्तु ॥ १ ॥ पीतारुणादिभासं फलदानायाभिसन्धिभेदेन । आसेचनकावयवामासेवे देवतामिहोपास्याम् ॥ २ ॥ द्विचतुःप्रमुखैदोभिर्विधृतवराभीतिशूलचक्राद्यैः । पालितविश्वत्रितयः पायान्मां कोऽपि निरवधिभूमा ॥ ३ ॥ बिन्दुत्रिकोणषडरद्विपदळवेदच्छदैः सचतुरथैः । चारुणि विहारशीलं चक्रे कलयामि किञ्चन ज्योतिः ॥ ४ ॥ इच्छाऽऽदिभिः तथाऽङ्गैः ब्राह्मयाद्याभिर्गणेश्वरप्रष्ठैः । इन्द्रादिभिश्च पञ्चभिरावरणैः स्तौमि दैवतं सेव्यम् ॥ ५ ॥ एकार्णादिशतार्णावधिकैर्मनुभिर्निरुच्यमानात्मा । यन्त्रमनुदेशिकस्वोपासकभेदातिगा चिदाविः स्यात् ॥ ६ ॥ कल्पोक्तसङ्ख्यजपतद्दशांशहोमादिमोदितस्वान्तम् । वाञ्छितदायि विपक्षव्ययदक्षं भातु साधकश्रेयः ॥ ७ ॥ दीनाधीनदयारसवशंवदस्मेरसुन्दरापाङ्गा । मूर्तिमती मम मुनिभिर्महनीया भाग्यधोरणी जयति ॥ ८॥ साधारणमपि तदिदं स्तोत्रमसाधारणप्रभावाढ्यम् । पठतां क्रमावसाने प्रथते पुंसां मनीषितमशेषम् ॥ ९॥