________________
•
अनवस्थोल्लासः सप्तमः --- साधारणक्रमः
२०१
गुण्ठनानि तत्तन्मुद्रया कृत्वा, वन्दनधेनुयोनिमुद्रा प्रदर्श्य, सामान्यायदकेन ६ अमुकायै पाद्यं कल्पयामि नमः इत्यादिरीत्या पाद्यार्ध्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजनछत्रचामरयुगदर्पणनैवेद्यपानीयताम्बूलाख्यान् षोडशोपचारान्, नैवेद्याङ्गत्वेन पूर्वोत्तरापोशने हस्तप्रक्षाळनगण्डूषकरणाचमनीयानि च दद्यात् । नैवेद्ये त्रिकोणवृत्तचतुरश्रमण्डलकरणम्, मूलेन प्रोक्षणम्, वं इति धेनुमुद्रया अमृतीकरणम्, मूलेन सप्तवाराभिमन्त्रणम्, प्राणादिमुद्राप्रदर्शनं चानुष्ठेयम् । ततो मूलान्ते अमुकदेवताश्रीपादुकां पूजयामि इति मन्त्रेण वामकरतत्त्वमुद्रासन्दष्टद्वितीयशकलगृहीतक्षीरबिन्दुसहपतितैः दक्षकरोपात्तकुसुमैः प्रधानदेवतां त्रिः सन्तर्प्य, तस्याम्नीशासुरवायुषु मौळौ प्रागादिदिक्षु च क्रमेण तत्तद्देवताषडङ्गमन्त्रैः ६ हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि इति क्रमेण षडङ्गमन्त्रैः अङ्गदेवताः समभ्यर्च्य ॥
त्रयम्
प्रधानदेवतायाः पश्चात् प्रागपवर्ग दक्षिणसंस्थाक्रमेण तत्तत्तन्त्रोक्तं गुर्वोधत्रयं यजेत् । तदज्ञाने तु—
ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं गुरुभ्यो नमः, ६ ऐं गुरुपादुकाभ्यो नमः । इति दिव्यौघः ॥
६ ऐं परमगुरुभ्यो नमः, ऐं परमगुरुपादुकाभ्यो नमः । इति सिद्धौघः ॥
६ ऐं आचार्येभ्यो नमः, ६ ऐं आचार्यपादुकाभ्यो नमः, ६ ऐं पूर्वसिद्धेभ्यो नमः, ६ ऐं पूर्वसिद्धपादुकाभ्यो नमः । इति मानवौघः ॥ इति गुवघत्रयम् ॥
आवरणार्चनम्
त्र्य देवताऽग्रकोणमारभ्य प्रादक्षिण्यक्रमेण
ऐं ह्रीं श्रीं ऐं क्लीं सौः इच्छाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः, ज्ञानशक्तिश्री०, क्रियाशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति प्रथमावरणम् ॥
72