________________
नित्योत्सवः
अर्घ्यशोधनम् ततः श्रीक्रमोक्तेन क्रमेण सामान्यविशेषायें आसादयेत् । अत्र चोभयोरप्यर्थ्ययोः प्रवेशरीत्या अन्तरन्तश्चतुरश्रादिमण्डलकरणम् , २ अं आत्मतत्त्वाय आधारशक्तये वौषट् इत्याधारस्थापनम् , २ उं विद्यातत्त्वाय पद्मासनाय वौषट् इति पात्रनिधानम् , २ मं शिवतत्त्वाय सोममण्डलाय नम इति शुद्धजलापूरणम् ,
ऐं ग्लौं ब्रह्माण्डाखण्डसम्भूतमशेषरससम्भृतम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥ इति क्षीरपूरणे मन्त्रान्तरं चोक्तम् , षडङ्ग, चतुर्नवतिमन्त्राभिमन्त्रणाभावः, मूलेन दशधा अभिमन्त्रणं च विशेषः । अथ विशेषार्थ्यबिन्दुभिः सपर्यासामग्री पावयित्वा ।
सप्तार्णमत्रपञ्चकन्यासः अन्धे अन्धिनि नमः इत्यादीन् पञ्चमन्त्रान् उक्तबीजद्वयादिकान् शिरोवदनहृदयगुह्यपादेषु न्यस्य,
अष्टखण्डन्यासः मुलम्य खण्डैरष्टभिः वक्ष्यमाणेषु स्थानेषु न्यसेत् । यथा— ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि वाराहि वाराहि वराहमुखि
वराहमुखि नमः इति पादादिजानुपर्यन्तम् ॥ २ अन्धे अन्धिनि नमः इत्याजानुकटि ॥ २ रुन्धे रुन्धिनि नमः इत्याकटिनामि ॥ २ जम्भे जम्भिनि नमः इत्यानाभिहृदयम् ।। २ मोहे मोहिनि नमः इत्याहृदयकण्ठम् ॥ २ स्तम्भे स्तम्भिनि नमः इत्याकण्ठभ्रूमध्यम् ॥ २ सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं
कुरु कुरु शीघ्रं वश्यं नमः इत्याभूमध्यललाटम् ॥ २ ऐं ग्लौं ठः ठः ठः ठः हुँ अस्त्राय फट् इत्याललाटब्रह्मरन्धं चेति ॥