________________
१५२
नित्योत्सवः
पञ्चारस्याराणामग्रेषु च
ऐं क्लीं सौः ह्रीं कामराजश्रीपादुकां पूजयामि तर्पयामि नमः, क्लीं मन्मथ, ऐं कन्दर्प, ब्लू मकरकेतन, स्त्री मनोभवश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति द्वितीयावरणम् ॥ अष्टदलस्य दलानां मूलेषु पूर्ववत्
क्लीं सौः आं ब्राह्मीश्रीपादुकां पूजयामि तर्पयामि नमः, ई माहेश्वरी, ऊं कौमारी, ऋ वैष्णवी, लूं वाराही, ऐं माहेन्द्री, औं चामुण्डा, अः चण्डिकाश्रीपादुकां पूजयामि तर्पयामि नमः ॥ अष्टदलस्य दलानां अग्रेषु च
ऐं क्लीं सौः लक्ष्मीश्रीपादुकां पूजयामि तर्पयामि नमः, सरस्वती, रति, प्रीति, कीर्ति, शान्ति, पुष्टि, तुष्टिश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति तृतीयावरणम् ॥
षोडशदले प्राग्वत्___ऐं क्लीं सौः वामाश्रीपादुकां पूजयामि तर्पयामि नमः, ज्येष्ठा, रौद्री, शान्ति, श्रद्धा, सरस्वती, क्रियाशक्ति, लक्ष्मी, सृष्टि, मोहिनी, प्रमथिनी, आश्वासिनी, वीचि, विद्युन्मालिनी, सुरानन्दा, नागबुद्धिकाश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति चतुर्थावरणम् ॥ द्वितीयाष्टदले प्राग्वत्
क्लीं सौः अं असिताङ्गभैरवश्रीपादुकां पूजयामि तर्पयामि नमः, इं रुरु, उं चण्ड, क्रं क्रोध, लं उन्मत्त, एं 'कपालि, ओं भीषण. अं संहारभैरवश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति पञ्चमावरणम् ॥ चतुर्दले प्राग्वत--
ऐं क्लीं सौः मातङ्गीश्वरीश्रीपादुकां पूजयामि तर्पयामि नमः, सिद्धलक्ष्मी, महामातङ्गी, महासिद्धलक्ष्मीश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति षष्ठावरणम् ॥ 1 कपाल-अ.