________________
नित्योत्सवः
चक्षुप्मतीमन्त्रस्य भार्गव ऋषिः । नाना छन्दांसि । चक्षुष्मती देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम्
चक्षुस्तेजोमयं पुष्पकन्तुकं बिभ्रती करैः ।
गैप्यसिंहासनारूढां देवीं चक्षुष्मती भजे ॥ ६ ॥ विश्वावसुमन्त्रस्य संमोहन ऋषिः । गायत्री छन्दः । विश्वावसुर्देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम्
रक्ताङ्गरागारुणभूषणाढ्यं वीणाधरं वीटिकयोल्लसन्तम् ।
गन्धर्वकन्याजनगीयमानं विश्वावसुं सद्वृहतीं नमामि ॥ ७ ॥
पथिविद्रुद्रमन्त्रस्य वामदेव ऋषिः । पङ्क्तिश्छन्दः । पथिविद्रुद्रो देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम्
आत्तसज्यधनुर्बाणं कणं वृषभसंस्थितम् ।
अन्नपूर्णासमाश्लिष्टं पथिविद्रुद्रमाश्रये ॥ ८ ॥ तारामन्त्रम्य मत्स्य ऋषिः । विराट् छन्दः । ताराम्बा देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम्
नौकसिंहासनारूढां शाक्यदर्शनदेवताम् ।
जलापच्छमनीं वन्दे तारां वारिदमेचकाम् ॥ ९ ॥ नामत्रयमन्त्रम्य काश्यपात्रिभरद्वाजा ऋषयः । अनुष्टुप् छन्दः । श्रीमहाविष्णुदेवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम्
समस्तदुस्तरव्याधिसंघध्वंसपटीयसे ।
अच्युतानन्तगोविन्दनाम्ने धाम्ने नमो नमः ॥ १० ॥ महागणपतिमन्त्रस्य गणक ऋषिः । नृचद्गायत्री छन्दः । श्रीमहागणपतिर्देवता। तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम्
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
श्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कगम्भोरुहः ।