________________
नित्योत्सवः त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम ।
शुभं कुरुप्व मे भद्रे यशो वीर्य च सर्वदा ॥ इति मालां प्रार्थ्य, निगूढं निधाय, श्रीगुरुपादुकामन्त्रं मुहुरुच्चारयन् गुरुपरमगुरुपरमेष्ठिगुरून् तत्तन्नामपूर्व प्रणमेत् ॥ इति जपविधिः ॥
रश्मिमालामन्त्राः
(तत्र वैदिकेषु स्वरपूर्वं पाठः) ॐ भूर्भुवः सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति त्रिंशद्वर्णा गायत्री ॥ मूलाधारे ॥ १ ॥
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छन्धि तव तन्न ऊतये विद्विषो विमृधो जहि ॥ म्वस्तिदा विशस्पतिर्वत्रहा विमृधो वशी।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ।। इत्यैन्द्री विद्या सप्तषष्टयर्णा सङ्कटे भयनाशिनी ॥ हृदये ॥ २ ॥
ॐ वृणिः सूर्य आदित्योम् ॥ इत्यष्टार्णा सौरी तेजोदा ॥ फाले ॥ ३ ॥ ॐ ॥ इति प्रणवः केवलो ब्रह्मविद्या मुक्तिप्रदा ॥ ब्रह्मरन्ध्र ॥ ४ ॥
ॐ परोरजसे सावदोम् ॥ इति नवार्णा तुरीयगायत्री स्वैक्यविमर्शिनी॥ द्वादशान्ते ॥ ५॥
रश्मिपञ्चकमेतत् मूलाधारहृत्फालविधिविलद्वादशान्तस्थानबीजतया भावनीयम् । द्वादशान्तस्थानं तु ललाटस्योत्तरभागः ॥
ॐ सूर्याक्षितेजमे नमः । खेचराय नमः । असतो मां सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माममृतं गमय । उप्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ॥
विश्वरूपं वृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॐ नमो भगवते सूर्याय । अहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा ॥