________________
यौवनोल्लासः तृतीयः-श्रीक्रमः निगृह्णामीति रिपुजिह्वाग्रया मुद्रया वामपादाधो न्यसेत् । पुनस्तथैव तामुच्चार्य त्रैलोक्यस्याहं कर्तेति त्रिखण्डां फाले न्यसेत् । पुनस्तथैव तां उच्चार्य वदने वेष्टनत्वेन न्यसेत् । पुनस्तथैव तां उच्चार्य दक्षकर्णादिवामकर्णान्तं मुखवेष्टनत्वेन न्यसेत् । पुनस्तथैव तामुच्चार्य गोर्ध्वमाशिरो न्यसेत् । पुनस्तथैव तामाद्यन्तप्रणवमुच्चार्य मस्तकात् पादपर्यन्तं पादादामस्तकं च न्यसेत् । पुनस्तथैव तामुच्चार्य योनिमुद्रया मुखे न्यस्य, पुनस्तथैव तामुच्चार्य योनिमुद्रया ललाटे न्यसेत् ॥
सम्मोहनन्यासः ततः श्रीविद्यां स्मृत्वा तत्प्रभया जगदरुणं विभावयन् अनामिकां ऊर्ध्व परिभ्राम्य, उच्चार्य मुहुर्मुहुः मूलविद्यां ब्रह्मरन्ध्र मणिबन्धद्वितये फाले च विन्यसेत् ॥ एष सम्मोहनो नाम न्यासोऽन्वर्थः ॥
संहारन्यासः अथ चतुस्तारीनमस्सम्पुटितान् मूलविद्याषोडशार्णान् क्रमेण पादयोः जङ्घयोः जान्वोः कटिभागद्वय पृष्ठे लिङ्गे नाभौ पार्श्वयोः स्तनयोः अंसयोः कर्णयोः मूर्ध्नि मुखे नेत्रयोः कर्णयुगसन्निधौ कर्णवेष्टनयोश्च न्यसेत् । अत्र कूटत्रयस्य वर्णत्रयत्वेन षोडशार्णत्वव्यपदेशः । पादादिषु प्रथमं दक्षः ततो वाम इति बोध्यम् ॥
सृष्टिन्यासः पुनस्तथैव विद्याऽर्णान् क्रमेण ब्रह्मरन्धे फाले दृशोः कर्णयोः प्राणपुटयोः गण्डयोः दन्तपङ्क्तयोः ऊर्ध्वाधरोष्ठयोः जिह्वायां चोरकूपे पृष्ठे सर्वाङ्गे हृदि स्तनयोरुदरे लिङ्गे च न्यस्य मूलेन व्यापकं कुर्यात् ॥
स्थितिन्यासः अथ पूर्वक्रमेणैव अङ्गुष्ठादिकनिष्ठान्तकराङ्गुलिषु मूर्ध्नि मुखे हृदि नामे: पादद्वयावधि कण्ठादानाभि मूर्ध्न आकण्ठं पूर्ववत् पादाङ्गुलिषु च न्यसेत् । अत्र दक्षवामकरचरणागुलिषु द्वयोर्द्वयोरेकैकमक्षरम् ॥ .
एते पञ्चैव ज्ञानार्णवमते । तन्त्रान्तरेषु तु अन्येऽपि पञ्च उपलभ्यन्ते ॥