________________
यौवनोल्लासः तृतीयः-श्रीक्रमः हृदयादिगुह्यान्तं (नित्याषोडशिकार्णवे कट्यादिपादाङ्गुल्यन्तं), क्षं नमः हृदयादिमूर्धान्तं (नित्याषोडशिकार्णवे कट्यादिब्रह्मरन्ध्रान्तम्) ॥ अत्र मातृकाणां बिन्दुमत्त्वं–वाग्देवताऽष्टकन्यासस्थान् सबिन्दूनचः सर्वत्र वर्गाणां बिन्दुयोग इति ज्ञापकात्-सिद्धम् ॥
इति मातृकान्यासः । अयमेक एव सूत्रोक्तः ॥
करशुद्धिन्यासः ऐं ह्रीं श्रीं अंमध्यमाभ्यां नमः, आं अनामिकाभ्यां, सौः कनिष्ठिकाभ्यां, अं अङ्गुष्ठाभ्यां, आं तर्जनीभ्यां, सौः करतलकरपृष्ठाभ्यां नमः ॥
आत्मरक्षान्यासः ऐं ह्रीं श्रीं ऐं क्लीं सौः महात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष, इति हृदये अञ्जलिं दद्यात् ॥
चतुरासनन्यासः ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यात्मासनाय नमः । इति स्वस्य मूलाधारे
न्यस्य ॥ ३ हैं हक्लीं ह्सौः श्रीचक्रासनाय नमः । ३ हौं, हसक्ती हस्सौः सर्वमन्त्रासनाय नमः । ३ ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः ।
इति त्रिभिः मन्त्रैः मुहुर्मुहुः पुष्पक्षेपेण चक्रमन्त्रदेवताऽऽसनानि श्रीचक्रे न्यसेत् ॥
बालाषडङ्गन्यासः ऐं ह्रीं श्रीं ऐं हृदयाय नमः, क्लीं शिरसे स्वाहा, सौः शिखायै वषट् , __ ऐं कवचाय हुम् , क्लीं नेत्रत्रयाय वौषट् , सौः अस्त्राय फट् ॥