________________
प्रथमः खण्डः-दीक्षाविधिः
२५
वचनादानगमनविसर्गानन्दपञ्चकम् । कर्मस्वधिष्ठानरूपमतस्तन्न पृथकृतम् ।। वाक्पाणिपादपायूपस्थाख्यं तत्करणं भवेत् । सर्वदेहगतं चापि स्फुटव्यक्तेरुदाहृतम् ॥ मनस्संकल्पकरणं बुद्धिनिश्चयकारिणी । विकल्पप्रतिबिम्बानां भूमिर्दर्पणवच्छिवे ॥ एतावदभिमानात्मा चाहंकार उदाहृतः । दुःखनिर्वृतिमोहाख्यरजस्सत्वतमोमयम् ॥ अन्तःकरणमित्युक्तं तत्तदाधिक्यसंभवम् । कारणानां गुणानां तु साम्यं प्रकृतिरुच्यते ॥ तद्भिन्नः पुरुषः प्रोक्तः पूर्णः संक्षिप्तशक्तिकः । चिदानन्दस्तथेच्छा च ज्ञानं तद्वत् क्रियाऽपि च ।। परिपूर्णाश्शक्तयस्तु संकोचात्तु कलादिकाः । सर्वकर्तृत्वरूपा वै क्रियाशक्तिः कलाऽभवत् । किंचित्कर्तृत्वरूपेण ज्ञानं सर्वज्ञता तथा । 'बुद्धिस्तत्प्रतिबिम्बानां वस्तूनामेव बोधकः ॥ संकोचनात्तु विद्याऽऽख्या सैवाविद्येति गीयते । इच्छा तु नित्यतृप्त्याख्या सैव संकोचशालिनी ।। रागः कचिदतृप्त्याख्या क्वचिद्रञ्जनरूपिणी । चिच्छक्तिनित्यसत्ताऽऽख्या कालः षड्भावयोगतः ।। आनन्दशक्तिस्वातन्त्र्यं सार्वत्रिकमुदीरितम् । अन्यापेक्षणहेतोस्तु संकोचान्नियतिः स्मृता ।। अखण्डरसमेतावदेतद्भेदननैपुणा । स्वतन्त्ररूपा त्वं देवि माया भैरववल्लभा ।। भेदनेन स्वरूपस्य गोपनात्तत्त्वरूपिणी ।
स्वरूपभेदनं हित्वा चैक्यावगमनोद्यता ।। 1 वुद्धित-ब.
बोधतः-ब.