________________
परशुरामकल्पसूत्रम्
तेन पञ्चध्रुवके चतुर्विंशतिः चतुर्बुवके षट् द्वितीयध्रुवके द्वौ एकध्रुवके एकं इति शिवम् ॥ २४ ॥
इति त्रयोदशः खण्डः
अथातो नष्टोदिष्टं व्याख्यास्यामः ॥ १॥
हसकलह्रीं इत्येषां पञ्चानामक्षराणां ध्रुवप्रस्तारे विंशत्यधिकशतं वृत्तानि तेषु चतुरशीतितमवृत्तजिज्ञासायां चतुरशीतिसङ्ख्यैव नष्टोऽङ्कः ॥ २॥
खण्डाङ्कास्तु चतुर्विंशतिः षट् द्वे एक शून्यं चेति पूर्वमेवोक्त्या तेनै कैकेन नष्टाङ्क विभजेत् ॥ ३॥
तथा चतुर्विंशत्या चतुरशीतेर्हरणे त्रयो लब्धाः द्वादशाशष्टास्ततः षड्भिः द्वादशानां हरणे यद्यपि निश्शेषता भवति तथाऽऽपि विभाजकानां सशेषत्वादत्राप्येकं षट्कमवशेष्यं तेनैकलब्धं षट् षष्ठा ततो द्वाभ्यां षण्णां हरणे सावशेष विभजनेन द्वौ लब्धौ द्वौ शिष्टौ तत एकेन सशेषहरणे एक लब्धं एकं शिष्टम् । तस्य शून्येन विभजनेन शून्यं लब्धं शून्यं शिष्टं तेन त्र्येकट्येकशून्यानि लब्धाङ्काः एते प्रत्येकं सैकाः कार्याः । तेन चतुर्द्वित्रिव्येकाङ्का भवन्ति ॥ ४॥
ततश्च पूर्वकृप्तक्रमेषु हसकलह्रीं इत्याकारकेषु ध्रुववणेषु चतुर्विव्यकसङ्ख्यावणोस्तान् सङ्ख्याय निष्कास्य पृथक् लिखेत् ॥ ५॥