________________
परशुरामकल्पसूत्रम्
“अथातः सर्वेषां मन्त्राणां" इत्यादि " अथातो दीक्षां" इत्यन्तेन खण्डविभागमुक्त्वा पटलानुक्रमणिकां दर्शयति---अथैव मि ति । अथेत्यारभ्य खण्डद्वयानन्तरं तृतीयखण्डारंभः ए व मि ति । अथ १, एवं २, अथ ३, इत्थं ४, अथ स्वेष्ट ५ । एवं एकैकं पटलं खण्डद्वयात्मकं ज्ञेयम् ॥ ८४ ॥
ग्रन्थकर्तृप्रशंसा ग्रन्थकर्तारं तद्गुणोत्कर्ष च प्रकटयति
इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसंभूतमहादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गवमहोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं संपूर्णम् ॥
दुष्ट क्ष त्रिय कुल कालान्त के त्यनेन दुष्टनिग्रहपूर्वकधर्मव्यवस्थापकत्वं दर्शितम् । रेणु का गर्भ त्यनेन जामदम्यस्योभयकुलशुद्धत्वं दर्शितम् । म हा दे वे त्यनेन संप्रदायप्रवर्तकशुद्धिर्दर्शिता । कु ला चार्य इत्यनेन स्वस्य सर्वतन्त्रस्वतन्त्रता सूचिता । एतैः सर्वैर्विशेषणैः स्वप्रणीतग्रन्थे अप्रामाण्यशङ्काकळङ्कलेशाभावः सूचितः ॥ ८५ ॥
व्याख्यानरचनकालः
एषोऽपराजितानन्दनाथः श्रीगुरुसेवया । संपन्नसूक्ष्मविज्ञानः श्रीदेवीप्रेरितः कृती ॥ जामदग्यं कल्पसूत्रं व्याचख्यौ गूढभावकम् । बालानां सुखबोधाय श्रीदेवीप्रीतयेऽपि च ॥ रचितग्रन्थजालं तु साधवो गतमत्सराः । शोधयन्तु विचार्यैव भ्रान्तेः पुरुषधर्मतः ॥ साधुरेषोऽथवाऽसाधुः सौभाग्योदयसंज्ञकः । यत्प्रेरणासमुद्भूतः तस्याश्चरणपङ्कजे ॥ . .