SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ दशमः खण्डः-सर्वसाधारणक्रमः दीपान्तरस्य सत्त्वे तु दीपनाशो न दोषदः । तस्मात् दीपाननेकान् वै ज्वालयेत् परितः शिवे ॥ ६८ ॥ शेषं स्पष्टम् ॥ एतत्प्रयोगरचनं सूक्ष्मबुद्धया विभाव्य रचनीयम् । ग्रन्थविस्तरभयान्नेह लिख्यते ॥ एवं प्रायश्चित्तं कर्मवैगुण्ये प्रायो दर्शितम् । अनुक्तविषये प्रायश्चित्तं साधारणतयोक्तं योगिनीतन्त्र--- अनुक्तानां च दोषाणां दशधा मूलसंस्मृतिः ॥ इति ॥ तथा बृहद्वामकेश्वरेऽपि---- ज्ञाताज्ञातकृतानां तु पापानां परमेश्वरि । पादुकां तु त्रिधा स्मृत्वा तत्क्षणादेव नश्यति ॥ इति ॥ एवं प्रसक्तानुप्रसक्त्या । इत्यलं भूयसा ॥ ८२ ॥ .. . कुलमार्गनिष्ठप्रशंसा एतावत्पर्यन्तमनुष्ठेयक्रियामुक्त्वा तदनुष्ठातारं स्तौति इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचगृहकाश्योर्नान्तरं जीवन्मुक्तः ॥ ८२॥ इत्थं एतावत्पर्यन्तं उक्तप्रकारं वि दि त्वा सम्यग्विदित्वा विधि व द्यथाशास्त्रमनुष्ठित व तः अनुष्ठानं कुर्वतः कुल निष्ठ स्य कुलमार्गे श्रद्धाभक्तिमतः । कुलमार्गश्चैतावत्पर्यन्तं दशखण्डैरुक्तो ज्ञेयः । सर्वतः सर्वप्रकारैः कृत कृत्य ता अनुष्ठेयशेषरहितता संपन्नेति शेषः । एवं शरीरस्थितिकाले फलमुक्त्वा देहत्यागेऽपि
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy