________________
३३२
परशुरामकल्पसूत्रम् उद्वासानन्तरं वाऽपि मण्डलात् बाह्यतोऽपि वा । आदरेण समादेयं सर्वैः पर्वतगोत्रजे ॥ उपवासपरैश्चापि स्वीकर्तव्यं सुभक्तितः । भोजनादौ तथा सर्वैः स्वीकर्तव्यं प्रसादकम् ॥ निवेदितं यत् प्रथमं सर्वैरापोशनान्ततः । चुलुकेन समादेयं मूलं स्वाहाऽन्तमुच्चरेत् ।
एतत्सर्वं तदमृतं करोति शृणु शङ्करि ॥ इति ॥ मपञ्चकेषु यदनुकल्पः तदुत्तरस्य मुख्यम्य लाभेऽपि न ग्रहणम् । यथा द्वितीयस्यानुकल्पे तृतीयं मुख्यं न । एवं अग्रेऽपि । तदुक्तं परमानन्दतन्त्रे ----
पूर्वानुकल्पे तु परं मुख्यं नैव तु योजयेत् ॥ इति ।।
पञ्चमप्रकार:
पञ्चममुख्यस्य प्रकारस्त्रिविधः । तत्राद्यं दूतीयजनरूपम् । तत्राधिकारिणः सदाशिवादय एव. न मनुष्याः । तदुक्तं परमानन्दतन्त्रे-----
अद्वैतज्ञाननिष्ठो यो योऽसौ संसारपारगः ।
स एव यजने दूत्या अधिकारी तु नापरः ॥ इति ॥ अतस्तदनुष्ठानस्य संप्रत्यभावात् तदितिकर्तव्यतां परित्यज्य द्वितीयप्रकारमारभ्योच्यते।। तदुक्तं रहस्यार्णवे
त्रिधा तु पञ्चमं प्रोक्तं दूतीयागस्तदादिमः । एष प्रकारो देवेशि योगिराजैकगोचरः ॥ द्वितीयं तु समर्चाऽन्ते 'दूती पूज्या यथाविधि । योनिकुण्डे शिवात्माग्नौ मन्त्रमावर्तयन् क्रमात् ।
रतोहविर्हावयित्वा देवताप्रीतिमाप्नुयात् ॥ . . . । दूतीं पूज्य श्री.