________________
पाणिनिसूनव्याख्या सुहितार्थ करणे षष्ठीविधायक प्रमाणं नास्ति । ' पूरण ण' (न. 705 ) इति सूत्रेण षष्ठीसमासनिषेधात् करणे षष्ठयनुमीयते । 'नाग्निस्तृप्यति काष्ठानां नायगानां महोदधिः' इति सुभाषितरत्नभाण्डागारे । नैषधे-III. 30.
मलं सजन् धर्मविधौ विधाता
रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्गय रसस्य तृप्तां
न वेद तां वेदजडः स वक्राम् ।। 308 ।। रसस्येति करणे षष्ठी । रसस्य तृप्तां रसतृप्तामिति समासो निक्षेषान्न स्यात् । चम्पूभारते-II. 25.
तत्र कापि तरुणी तटिदाभा
तं ययौ जतुगृहै। सुहितेन । चूषणाय तमसा वनमार्गे
चोदिता हुतवहेन शिखेव ॥ 309 ॥ जतुगृहैरिति करणे तृतीया । जतुगृहै: मुड़ितो जतुगृहसुहिल इति समासस्तु स्यादेव। नैषधे-III. 93.
शुद्धान्तसम्भोगनितान्ततुष्टे
न नैषधे कार्यमिद निगाद्यम् । अपां हि तृप्ताय न वारिधारा
खादुः सुगन्धिः स्वदते तुषारा || 310 ॥ अनघराघवे-I. 34.
ग-भगवन् प्रसीद तावदुत्तरोत्तरेषां महोत्सवानां कदाचिदपि न तृप्यन्ति पुंसां हृदयानि ॥ 811॥