________________
६२
पाणिनिसूत्रव्याख्या भट्टिकाव्ये---V, 33.
भवन्तं कार्तवीर्यो यो हीनसन्धिनचीकात् ।।
जिगाय तस्म हन्तारं स ममः सार्व लौकिकः ।। 260। भवन्तमित्यणिकर्तुः कर्मत्वम् । भट्टिकाव्ये---VIII. 84
आज्ञा कारय रक्षोभिमा प्रियाण्युपहारय ।
क; शक्रेण कृतं नेच्छेदधिमूर्धानमञ्जलिम् ।। 261।। रक्षोभिरिति तृतीया । मामिति द्वितीया । भट्टिकाव्ये--XV. 84.
अलसच्चाहतो मूर्ध्नि खङ्गं चाजीहरद द्विषा ।
प्राणानौझीच खड्गेन छिन्नस्तेनैव मूर्धभिः ।। 262 || द्विषा इति तृतीया। मेघसंदेशे-I 4.
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी __ जीमूतेन स्वकुशलमयीं हारयिष्यप्रवृत्तिम् । स प्रत्यौः कुटजकुसुमैः कल्पितार्थाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं खागतं व्याजहार | 263 ॥ जीमूतेनेति तृतीया ।
वा । अभिवादिदृशोरात्मनेपदे वेति वाच्यम् । (1114) अभिवादयते दर्शयते देवं भक्तं भक्तेन वा । नैषधे-V.71.
नैषधे बत वृते दमयन्त्या व्रीडितो हि न बहिर्भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्य ह्रीनिमीलि खलु दर्शयिताहे ।। 264 ॥ मणिका वनिताया वैकरपिकं कर्मत्वम् ।