________________
द्विरुक्तप्रसाद मेघसन्देशे--1.11.
अद्रेः शृङ्गं हरति पवनः किंम्विदित्युन्नी भि
दृष्टोत्साहश्चकितचकितं मुग्वसिद्धाजन नि स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेवान् : : :. चकितचकितं चकितप्रकारं यथा भवति तथा ! विर्भावः ! अस्मिन्नेव ग्रन्थे श्लो. 1941. मन्दमन्दं नन्दप्रकारन किरातार्जुनीये- XVIII. 41.
अणीयसे विश्वविधारिणे नमो
नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं
स्थिताय ते तत्पतये नमो नमः !! 194-4. !! ते तुभ्यं नमो नमः । 'चापले द्वे भवत इति वक्तव्यम् ' इति विरुक्तिः : 'सम्भ्रमेण प्रवृत्तिश्चापलम् ' इति काशिका !
अनर्धराधवे---VII. 117. त्रिपुरहरकिरीटक्रीडितैः क्रीडयद्भि
भुवनममृतभानोर्बालमित्रैः पयोभि. : सगरसुतचितायाः पावनीतोयराशे
रियमियमघमने जाह्नवी निगुते नः ।। 1945 il इयमियम् । 'सम्भ्रमे द्वे भवतः' इति द्वित्वम् । भट्टिकाव्ये-XX. 29.
त्वं पुनीहि पुनीहीति पुनन्वायो जगत्त्यम् ।
चरन् देहेषु भूतानां विद्धि मे बुद्धिविप्लवन् ।। 1946 ।। हे वायो पुनीहि पुनीहीति जगत्त्रयं पुनः पुनः पुनामि भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्त्रयं पुनन् ‘क्रियासमभिहारे लोट' (सू. 2825) इति लोट् .
85