________________
पाणिनिसूत्रव्याख्या इति द्विवचनम् । पूर्ववत्क्यम् । परस्मैपदं । शतृप्रत्ययः । अनितौ किम् । पटिति करोति ।
२१२९ । जो द्वितीयतृतीयशम्बबीजात्कृषौ । (५. ४. ५८)
द्वितीयादिभ्यो डाच स्यात् कृञ एव योगे कर्षणेऽर्थे । द्वितीय तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्र पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति । 'बीजाकृतन्तूप्तकृष्टम् ' II. ix. 8. 'त्रिगुणाकृतं तृतीयाकृतम्' II. ix. 9. 'द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह' II. ix. 9. इत्यमरः ।
२१३० । संख्यायाश्च गुणान्तायाः। (५. ४. ५९) कृञो योगे कृषौ डाच्स्यात् । द्विगुणा करोति क्षेत्रम् ।
२१३१ । समयाच यापनायाम् । (५. ४. ६०) कृषौ इति निवृत्तम् । कृो योगे डाच्स्यात् । समया करोति । कालं यापयतीत्यर्थः।
२१३२ । सपत्रनिष्पत्रादतिव्यथने । (५. ४. ६१)
सपनाकरोति मृगम् । सपुङ्खशरप्रवेशेन सपत्रं करोतीत्यर्थः । निष्पना करोति । सपुङ्खस्य शरस्यापरपार्श्वे निर्गमनानिष्पत्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् ।
अस्मिन्नेव ग्रन्थे ग. 785. धनञ्जयेन सपनाकृतः सैन्धवः । डाच । 'ऊर्यादि ' (सु. 762 ) इति गतिसंज्ञा । 'कुगति' (सू. 761 ) इति समासः ।
२१३३ । निष्कुलानिष्कोषणे। (५. ४. ६२)
निष्कुला करोति दाडिमम् । निर्गत कुलमन्तरवयवानां समूहो यस्मादिति बहुब्रीहेर्डाच् ।
२१३४ । सुखप्रियादानुलोम्ये । (५. ४. ६३)