________________
कारकप्रकरणम्
५३७ | कर्मणि द्वितीया । ( २.३.२ )
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति ! अभिहिते तु कर्मणि प्रथमैव !
हरिः सेव्यते ।
भट्टिकाव्ये - VIII. 94.
ततः खङ्गं समुद्यम्य रावणः क्रूरविग्रहः । वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन् ॥ 218|
खड्गमित्यनभिहिते कर्मणि द्वितीया ।
५३८ । तथायुक्तं चानीप्सितम् । (१.४.५० )
अस्मिन्नेव ग्रन्थे श्लो० 217. काकुत्स्थम् ।
५३९ । अकथितं च ( १. ४. ५१ ) अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्यः चपच दण्डरुधिप्रच्छिचित्रशा सुजिमधूनुषाम् । कर्मयुक्स्यादकथित तथा स्यानीहृकृष्वहाम् ॥ दुहिया चिरुच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ इतिवचनात्
जिदण्डिकृषकृमुण्डिनी हृन्मुषिवहिग्रहाम् । द्विकर्मसु पचादीनां चोपसङ्ख्यानमिष्यते ॥
भट्टिकाव्ये --- VIII. 82. !
५३
यः पयो दोग्धि पाषाणं स रामाद्भुतिमाप्नुयात् । रावणं गमय प्रीतिं बोधयन्तं हिताहितम् ॥ 219 ||:
दुहेर्द्विकर्मकत्वम् । तत्र पयस ईप्सितकर्मत्वम् । पाषाणमित्यकथितकर्मत्वम् ।
भट्टिकाव्ये - VI. 8.
:
सोऽपृच्छलक्ष्मण सीतां याचमानः शिवं सुरान् । रामं यथास्थित सर्वं भ्राता ब्रूते स्म विक्लवः ॥ 220 ॥