SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या २०२० | विन्मतोर्लुक् । ( ५, ३.६५ ) विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन सम्वी सजिष्ठः खजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः त्वचीयान् । ६४० किरातार्जुनीये - XIV. 57. अजिह्ममोजिष्ठममोघमक्कुमं क्रियासु बद्दीषु पृथङ्नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥ 1866 ॥ " ओजः अस्यास्तीति ओजस्वी । अतिशयेन ओजस्वी ओजिष्ठः । इष्ठन् । अनेन विनो अस्माया' (सू. 1928 ) इति विनिः । लुक् अस्मिन्नेव ग्रन्थे श्लो० 679. अतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मशब्दान्मतुबन्तादिष्ठन्प्रत्ययेऽनेन मतुपो लुक् । 6 अस्मिन्नेव ग्रन्थे श्लो० 1566. खगस्यास्तीति स्रग्वी । अस्माया' (सू. 1928 ) इति विनिः । स्रग्विणं करोति जयति । तत्करोतीति णिच् । विष्ठवद्भावादनेन विनो लुक् । माघे – VI. 62. कुसुमयन् फलिनीर लिनीरवैमैदविकासिभिराहितहुङ्कृतिः । उपवनं निरभसयत प्रियान् वियुवती युवती रिशशिरानलः ॥ 1867 ॥ फलिनी: कुसुमयन् कुसुमवतीः कुर्वन् । कुसुमयतेम त्वन्तप्रकृतिकात् तत्करोतीति ण्यन्ताल्लटश्शत्रादेशः । अनेन मतुपो लुक् । २०२१ । प्रशंसायां . रूपप् । (५, ३, ६६ ) सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् । प्रशस्ता ब्राह्मणी ब्राह्मणिरूपा । ' घरूप ' ( सू. 985 ) इति ह्रस्वः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy