________________
॥ अथ प्राग्दिशीयप्रकरणम् ||
१९४७ । प्राग्दिशो विभक्तिः । (५.३.१ ) दिक्शब्देभ्य इत्यतः प्राकू वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः । १९५३ | पञ्चम्यास्तसिल् । ( ५.३.७ )
,
I
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा । किमादिभ्यः किंसर्वनामबहुभ्यः । कुतः कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । ' अपादाने (सू. 2112 ) इति तसिः । ग्रामादागच्छति ग्रामत मागच्छति । अहीयरुहोरिति निषेधात् । स्वर्गाद्धीयते । पर्वतादवरोहति । वृक्षावृक्षं परिक्रानन् । वृक्षात्सकाशादित्यपा दाने पञ्चमी । जनस्या लोकपथात् । द्यौर्विशिखै रुरुधे । पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति । चोराद्विभेति । चोरात्त्रायते । अध्ययनात् पराजयते । यवेभ्यो गां वारयति । मातुर्निलीयते कृष्णः । उपाध्यायादधीते । ब्रह्मगः प्रजाः प्रजायन्ते | हिमवतो गङ्गा प्रभवति । एते पञ्चम्यन्ता अपादानसंज्ञाः ।
भट्टिकाव्ये - III. 24.
सुप्तो नभस्तः पतितं निरीक्षाञ्चक्रे विवस्वन्तमथ स्फुरन्तम् । आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः ||1811||
नभस्तः पतितम् । ' पञ्चम्यान्तसिल' इति व्याख्याने । पतनस्यापा यरूपत्वादपादाने पञ्चम्यास्तसिरिति मन्ये ।
भट्टिकाव्ये – VI. 15.
अक्षेमः परिहासोऽयं परीक्षां मा कृथा मयि ।
मत्तो मान्तर्धिथास्सी मा रंस्था जीवितेन नः ॥ 1812 ॥
मत्तो मान्तर्धिथाः । ' पञ्चम्यास्तसिल् ' इति व्याख्याने । ' अन्तर्षी येनादर्शन
मिच्छति' (सू. 591 ) इति अपादाने पञ्चम्यास्तसिरिति मन्ये ।