________________
६१२
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 696. अर्थवान् धनिकः । अस्मिन्नेव ग्रन्थे श्लो० 1271. गुरुदक्षिणार्थी । रघुवंशे-XV. 2.
लवणेन विलुप्तेज्यास्तामिस्रण तमभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ।। 1807 ॥ शरणार्थिनः। १९४२ । बलादिभ्यो मतुबन्यतरस्याम् । (५. २. १३६) बलवान् बली । उत्साहवान् उत्साही । बलादिः- ५. ४२.
चम्पूरामायणे-VI. 77.
ग—अनन्तरमपक्रान्तासुषु विक्रान्तेषु पुरन्दरारिमुखेषु नन्दनेषु, निहतेषु कुम्भकर्णादिषु भ्रातृषु, विध्वस्तेषु प्रहस्तपूर्वेषु सचिवेषु, व्यापादितेषु विरूपाक्षप्रभृतिषु सेनापतिषु, विकाणे भवति निखिले बलवति बले समन्ततः करुणपरिपूरितपौरववधूजनपरिदेवनोत्तरङ्गायां लङ्कायामातङ्कातिशयरोषणो रावणस्तत्क्षणमिक्ष्वाकुकुलनायकदयितां धरणीसुतां जिघांसुरन्तिकगतमन्त्रिणा निवार्यमाणस्सारथिना विधिना च चोदितरथो दाशरथिविजयविहितसङ्गरस्सङ्गराङ्गणमवततार ॥ 1808 ।।
बलवति । मतुप ।
अस्मिन्नेव ग्रन्थे श्लो० 1090. बली । इनिः । । । अस्मिन्नेव ग्रन्थे श्लो० 971. शिखी । ब्रीह्यादित्वाबलादित्वाच्च इनिः । अस्मिन्नेव ग्रन्थे श्लो० 1778. शिखी ।
१९४४ । कंशंभ्यां वभयुस्तितुतयसः। (५. २. १३८)
कं शं इति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययास्स्युः । कंवः । कभः । कंयुः । कन्तिः। कन्तुः । कंतः । कयः । शंवः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः ।