SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो. 1750. तप एषामस्तीति तपस्विनः । अत्र 'तपः सहस्त्राभ्यां विनिः' (सू. 1909) इति विनिः । किरातार्जुनीये-I. 30. वजन्ति ते मूढ धियः परभवं ___ भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधा नसंवृताङ्गान्निशिता इवेषवः ।। 1791 ।। मायाविषु मायावत्सु । मायिनो मायावन्तः । ब्रीह्यादित्वादिनिः ! रघुवंशे-X. 45. अचिराद्यज्वभिर्भाग कल्पितं विधिवत्पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ।। 1792 ।। मायाविभिः मायावद्भिः । रघुवंशे-XVII. 25. आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् । आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ।। 1793 ॥ खजोऽस्य सन्तीति स्रग्वी । विनिः । मनपराघवे---V. 86. मन्ये दर्पामयाविभ्यां नित्यं दोऱ्यांममर्षणः । जाम्बवत्प्रेरणादीप्तः प्राप्तोऽयं प्लवगेश्वरः ।। 1794 ।। दर्पण आमयावी रोगी । विनिः दीर्घत्वं च । अस्मिन्नेव ग्रन्थे श्लो० 31. बृन्द गुणबृन्दमस्या अस्तीति बृन्दारिका मुख्या। मारकन् । कात्पूर्वस्येत्त्वम् । भट्टिकाव्ये—XXI. 20. प्रेता वरेण शक्रस्य प्रणन्तः कपयस्ततः । सञ्जाताः फलिनानम्ररोचिष्णुद्रुमसद्रवः ।। 1795 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy