SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५९६ पाणिनिस्लव्याख्या गर्व विहाय चकिता गगनान्तराले गन्धर्वभावसदृश गमनं वितेनुः ।। 1761 ॥ गाण्डिवम् ॥ १९१८ । काण्डाण्डादीरनीरचौ । (५, २. १११). काण्डीरः । आण्डीरः । अस्मिन्नव ग्रन्थे श्लो० 1521. काण्डीरः बाणवान् । 'काण्डोऽस्त्री दण्ड बाण' III. iii. 48. इत्यमरः । मत्वर्थीय ईरन्प्रत्ययः । अनर्धराघवे--IV. 58. परैराहूतानां विहितमपि शस्त्रं भवतु नः . प्रकृत्या विप्रेभ्यः पुनरकृतिशिल्पा रघुभुवः । चिरादण्डीरेण त्वयि तदपि रामे न गणितं तपोविद्यावीरव्रतमय मयि क्षाम्यतु भवान् ॥ 1762 ।। अण्डीरेण दर्पिष्ठेन । 'अण्डीरः पुरुषे शक्त' इति मेदिनीकारः । ईरच । १९१९ । रजःकृष्यासुतिपरिषदो वलच् । (५, २. ११२) रजखला स्त्री । कृषीवलः । ‘वले' (सू. 1040) इति दीर्घः । आसुतीवलः शौण्डिकः । परिषदलः । पर्षदिति पाठान्तरम् । पर्षद्वलम् । . वा० । अन्येभ्योऽपि दृश्यते । (3210.) भ्रातृवलः । पुत्रवलः । शत्रुवलः । 'वले' (सू. 1040) इत्यत्र 'संज्ञायां' इत्यनुवृत्तेर्नेह दीर्घः । 'दैवज्ञाथ रजखला' II. vi. 20. 'कृषिकश्च कृषीवल: ' II. ix. 6. इत्यमरः । रघुवंशे-XI. 60. श्येनपक्षपरिघूसरालकाः सान्ध्यमेघरुधिरावाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ 1763 ।। रजो धूलिः आर्तवञ्च आसामस्तीति रजस्वलाः । वलच् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy