SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५७६ शणिनित्रव्याख्या मस्मिन्नेव अन्थे श्लो० 1375. 'एङ्क्ति' (सू. 1725 ) इत्यत्र त्रिंशदिति निपातितः । त्रिंशतः पूरणं त्रिंशतम् । तस्य पूरणे' (सू. 1849 ) इति डट् । अनेन डटस्तमडागमः। १८५७ । नित्यं शतादिमालार्धमाससंवत्सराच्च । (५. २. ५७) शलस्य पूरणश्शततमः : एकशततमः । मासतमः । अस्मिन्नेव ग्रन्थे लो० 46. शतस्य पूरणी शततमी। डटि तमडागमः टित्वान्डी । अस्मिन्नेव ग्रन्थे श्लो० 1584. मासस्य पूरणान्मासतमात् । अनेन डटस्तमडागमः । एतस्मादेव ज्ञापकात् असंख्यावाचिनोऽपि डट् । १८५८ । षष्टयादेश्वासंख्यादेः । (५. २. ५८) षष्टितमः । संख्यादेस्तु 'विंशत्यादिभ्यः' (सु. 1856 ) इति विकल्प एव। एकषष्टः । एकषष्टितमः। १८६३ । तत्र कुशलः पथः । (५. २. ६३) वुन् स्यात् । पथि कुशल: पथकः । 'पथः कन्' (सू. 1739 ). पन्थान गच्छति पथिकः । 'पन्थो ण नित्यं ' (सू. 1740 ) पन्थानं नित्यं गच्छति पान्थः । भट्टिकाव्ये---II. 43. ततो नदीष्णान्पथिकान् गिरिज्ञा नाह्वायकान् भूमिपतेरयोध्याम् । दिसुस्सुतां योधहरैस्तुरङ्गै यसर्जयन्मैथिलमय॑मुख्यः ।। 1704 ।। पथिषु नानामार्येषु कुशलान् पथिकान् । अनेन ठगिति व्याख्याने वर्तते । आहायकान् । अस्मिन्नेव ग्रन्थे श्लो० 1242. पन्थानं गच्छन्तीति पथिकाः। 'पथः कन्' (सू. 1739 ) इति ष्कन् ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy