SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पाञ्चमिकप्रकरणम् ।। १८०२ । धान्यानां भवने क्षेने खम् । (५. २. १ ) भवन्त्यस्मिन्निति भवनं मुद्रानां भवनम् क्षेत्रं मौद्रीनम् । 'मौद्गीनकौद्रवीणादिशेषधान्योद्भवोचितम् । II. ix. 8. इत्यमरः । १८०३ । बीहिशाल्योर्हक् । (५. २. २). चैहेयम् । शालेयम् । 'क्षेत्रं बेहेयशालेय व्रीहिशाल्युद्भवोचितं ' II. ix. 6. इत्यमरः। १८०४ । यवयवकपष्टिकाद्यत् । (५. २. ३) यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् । 'यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ' II. ix. 7. इत्यमरः । १८०५ । विभाषा तिलमाषोमाभङ्गाणुभ्यः । (५. २. ४) यद्वा स्यात् । पक्षे खञ् । तिल्यम् तैलीनम् । माष्यम् माषीणम् । उम्यम् औमीनम् । भङ्ग्यम् भाङ्गीनम् । अणव्यम् आणवीनम् । 'तिल्यतैलीनवन्माषोमाणुभङ्गाद्विरूपता' II. ix. 7. इत्यमरः । १८०६ । सर्वचर्मणः कृतः खखनौ । (५. २. ५) सर्वचर्मणा कृतस्सर्वचक्षणः सार्वचर्मीणः । १८०७ । यथामुखसम्मुखस्य दर्शनः खः । (५. २. ६) मुखस्य सदृशं यथामुखम् प्रतिबिम्बम् । सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनस्सम्मुखीनः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy