________________
पाणिनिसूत्रव्याख्या
चम्यूरामायणे-I. 18.
अस्ति प्रशस्तविभवैविबुधैरलक्या __ लकति नाम रजनीचरराजधानी । माणिक्यमन्दिरभुवां महसां प्ररोहै
___ स्तेजस्त्रयाय दिनदीपदशां दिशन्ती ।। 1622 ।। माणिक्यम् ।
१७९० । स्तेनाद्यन्नलोपश्च । (५. १. १२५) स्तेन चौर्य इत्यस्मात् पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योग विभज्य स्तैन्यमिति प्यजन्तमपि केचिदिच्छन्ति । कुमारसंभवे--II. 35.
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
न वाति वायुस्तत्पाा तालवृन्तानिलाधिकम् ।। 1623 ॥ स्तेयं चौर्यम् । यत् ।
१७९१ । सख्युर्यः । (५. १. १२६) सख्युर्भावः कर्म वा सख्यम् । 'दूतवणिग्भ्यां च' दूतस्य भावः कर्म वा दूत्यम् । ' स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणोः ' II. viii. 16. इत्यमरः । वणिज्यमिति काशिका | माधवस्तु वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः, भाव एव चात्र प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु ' दूतवणिग्भ्यां च' इति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि । 'वाणिज्यन्तु वणिज्या स्यात् ' II. xii. 79 इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 507. सख्यस्य सखित्वस्य । यः । अस्मिन्नव ग्रन्थे श्लो० 625. सख्यम् । नैषधे-V. 99.
पाणिपीडनमहं दमयन्त्याः कामयेमहि महीमिहिकांशो ।
दूत्यमत्र कुरु नः स्मरभीति निर्जितस्मर चिरस्य निरस्य ॥ 1624 ॥ दूत्यं दूतकर्म ।