SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५४२ पाणिनिसूनव्याख्या भट्टिकाव्ये--XII. 20. चापल्ययुक्तस्य हरेः कृशानुः समेषितो वालधिभाक बडीयैः । शस्त्रेण वध्यस्य गलन्नधाक्षीत् राजन् प्रमादेन निजेन लाम् !! 1617 || चपलस्य भावश्चापल्यम् ! म : युवादिष्वपि दृश्यते । तत्र चापलमिति रूपम् । ___अस्मिन्नेव अन्थे श्लो० 130. कुशलस्य भावः कौशली कौशल्यम् । व्या ! डीप । अस्मिन्नेव भन्थे श्लो० 129. विदग्धस्य भावः वैदग्धी । प्यनि विकल्पादीकारः। चम्पूभारते-~-III. 26. सुखाञ्चक्षुःश्रवस्तन्व्यास्सुरते मीलनं दृशोः । चक्रे मणितवैदग्ऽयं तस्य काननकौमुदीम् ॥ 1618 ॥ विदग्धस्य भावो वैदग्ध्यम् । ष्यन् । अस्मिन्नेव मन्थे श्लो० 1476. अनीश्वरस्य भाव आनैश्वर्यम् । ब्राह्मणादित्वात् प्यञ् । 'नशुचीवर' (सू. 1460 ) इत्युभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो) 19. चतुराणां भावश्चातुरी । यमि विकल्पान्डीम् । अस्मिन्नेव अन्थे श्लो० 1512. सहसा वर्तत इति साहसिकः । 'ओजस्सहो' (सू. 1577) इति ठक् । तस्य कर्म साहसिक्यम् । ब्राह्मणादित्वात्ष्यञ् । किरातार्जुनीये-~-XIII. 38. दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन्महीभृतः । राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम् ।। 1619 ।। अधिपतेः कर्म आधिपत्यम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु च पठ्यते । तत्र कौशलं चापलं नैपुणमित्यण् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy