________________
पाणिनिस्सूलव्याख्या
प्रकृतिरस्य विधुन्तुद दाहिका
मयि निरागसि का बद विप्रता !! 1599 ॥ ते कण्ठं गरुडवत् गरुडस्येव । तस्यार्थे वतिः ।
१७८० । तदर्हम् । (५. १. ११७) विधिमर्हति विधिवत् पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । किरातार्जुनीये-II. 58.
अवहितहृदयो विधाय सोऽही.
मृषिवदृषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलंचकार पश्चात्
प्रशम इव श्रुतमासनं नरेन्द्रः ॥ 1600 ॥ ऋषिवत् ऋष्याम् । अर्हार्थे वतिप्रत्ययः । अहाँ पूजाम् ।
अस्मिन्नव ग्रन्थे श्लो० 337. राजानमर्हतीति राजवत् राजाहम् । अनेन वतिप्रत्ययः । 'तद्धित' (सू. 448) इत्यव्ययत्वम् । अय॑म् ।
रघुवंशे-V. 3.
तमर्चयित्वा विधिवद्विधिज्ञ
स्तपोधनं मानधनाग्रयायी। विशांपतिर्विष्टरमाजमारात्
कृताञ्जलिः कृत्यविदित्युवाच ॥ 1601 ॥ विधिवत् विध्यहम् । अनेन वतिप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 532. यथावत् यथार्हम् । वतिः ।
अस्मिन्नेव ग्रन्थे श्लो 339. यथावत् यथार्हम् । 'तहति' (सू. 1728) इत्यनेन लब्धं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठादयः । श्वतच्छत्रमर्हति श्वैतच्छत्रिकः । दण्डमर्हति दण्ड्यः वध्य इत्यादयः ।
१७८१ । तस्य भावस्त्वतलौ । (५. १. ११९) गोर्भावो गोत्वं गोता । त्वान्तं क्लीबम् । तलन्तं स्त्रियाम् ।