SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नलाधिकारप्रकरप्पम् ।। १७७८ । नेन तुल्यं क्रिया चेहतिः । (५. १. ११५) ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः । भट्टिकाव्ये-I. 3. वसूनि तोयं धनवद्वयतारीत् ___ सहासनं गोत्रभिदाध्यवात्सीत् । न त्र्यम्बकादन्यमुपास्थितासौ यशांसि सर्वेषुभृतां निरास्थत् ॥ 1594 ।। असौ वसूनि तोय घनवद्वयतारीत् वितीणवान् । अस्मिन्नेव ग्रन्थे श्लो० 1292. वृद्धतमोऽपि राजा यविष्ठवत् युवतमवत् मिथिलामगच्छत् । अस्मिन्नेव ग्रन्थे श्लो० 917. रथ कद्रथवद्धभञ्ज । अस्मिन्नेव ग्रन्थे श्लो० 839. वाली राममसाधुना तुल्यमसाधुवत् उपालब्ध। भट्टिकाव्ये--VII. 2. तर्पण प्रजनिष्णूनां सस्यानाममलं पयः । रोचिष्णवस्सविस्फूर्जा मुमुचुभिन्नवद्धनाः ॥ 1595 ।। घनाः भिन्नवत् भिन्नस्तुल्यं जलं मुमुचुः । अस्मिन्नेव ग्रन्थे श्लो० 352. अदयालुवत् निर्दयेन तुल्यम् । अस्मिन्नेव अम्थे श्लो० 676. अपरा नार्यः भूम्या तुल्यं भूमिवत् कम्पमापुः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy