________________
५३०
पाणिनिसूत्रव्याख्या
१७६५ । तस्मै प्रभवति सन्तापादिभ्यः । ( ५.१.१०१ )
सन्तापाय प्रभवति सान्तापिकः । साङ्ग्रामिकः । सन्तापादि :
--
अनर्घराघवे - IV. 57.
ग - भो भोः पौरजानपदाः प्रवस्यैतां माङ्गलिकमातोद्यन् । प्रसज्यामधमपि
J
,
वैदेही विवाह महोत्सवो जामदग्न्यविजयोत्सवेन || 1587 ॥
मङ्गलाय प्रभवति माङ्गलिकम् । अनेन ठक् इत्यनर्भराघवव्याख्यायाम् । किंतु सन्तापादौ न मङ्गलशब्दो दृश्यते ।
अनर्घ राघवे
५. ११.
अस्मिन्नेव प्रन्थे श्लो० 77. मङ्गलं प्रयोजनमासां माङ्गलिकयः । ' प्रयोजनम् ' (सू. 1772 ) इति ठगिति मल्लिनाथा दिव्याख्या |
V. 48.
नयो हि साङ्ग्रामिक एष दोष्मतां यदात्मजातिप्रतिबद्धमायुधम् ।
अयः कुशीभिः कपयो न शस्त्रिण
'स्तलं च मुष्टिश्च नखाश्च सन्ति नः ॥ 1588 ৷ सङ्ग्रामाय प्रभवति साङ्ग्रामिकः । ठक् ।
१७६६ । योगाद्यच्च । ( ५.१.१०२ )
चाट्ठञ् । योगाय प्रभवति योग्यः । यौगिकः । अस्मिन्नेव ग्रन्थे श्लो० 1111. योगाय प्रभवतीति योग्यः । यत् ।
१७६७ । कर्मण उकञ् । (५.१.१०३ )
कर्मणे प्रभवति कार्मुकम् ।
माघे -- VI. 16.
कुसुमकार्मुक कामुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।