________________
५२२
पाणिनिसूत्रव्याख्या चम्पूरामायणे-I. 12.
ग- सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेघावरं सरयूरोघसि विधाय तत्र पुत्रीयामिटिं विधिवत्कर्तुमारभत ॥ 1572 ॥
पुत्रीयाम् ।
१७०७ । सर्वभूमिपृथिवीभ्यामणौ। (५. १ ४१)
सर्वभूमेनिमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते।
१७०८ । तस्येश्वरः । (५. १. ४२)
१७०९ । तत्र विदित इति च । (५. १ ४३)
सर्वभूमेरीधरः सर्वभूमौ विदितो वा सार्वभौमः पार्थिवः ।
रघुवंशे-IX. 4.
जनपदे न गदः पदमादधा
वभिभवः कुत एव सपत्नजः। क्षितिरभूत्फलवत्यजनन्दने
शमरतेऽमरतेजसि पार्थिवे ।। 1573 ॥ पृथिव्या ईश्वरे पार्थिवे । अण् । अस्मिन्नेव ग्रन्थे श्लो० 675. पार्थिवानाम् । पूर्ववत् ।
१७१० । लोकसर्वलोकाट्ठञ् । (५. १. ४४) तत्र विदित इत्यर्थे लौकिकः । सावलौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 260. सार्वलौकिका सर्वस्मिन् लोके विदितः । ठञ् । उभयपदवृद्धिः।