________________
५२०
पाणिनिसूत्रव्याख्या
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् || 1568 ||
बलये हितं बालेयम् । अमराघवे - II. 20.
बालेयतण्डुलविलोपकदर्थिताभि
ताभिरमिशरणेषु सधर्मिणीभिः |
तत्त्रासहेतुमपि दण्डमुदस्यमान
मात्रातुमिच्छति मृगे मुनयो हसन्ति || 1569
बालेया । ढञ् ।
१६७९ । परिखाया ढञ् । ( ५.१.१७ )
पारिखेयी भूमिः ।
॥ इति छयद्विधिप्रकरणम् ॥