________________
पाणिनिसूत्रव्याख्या
श्रुतप्रकाशं यशसा प्रकाशः
प्रत्युजगामातिथिमातिथेयः ।। 1561 । अतिथिषु साधुरातिथेयः।
मावे-XIY. 38.
तत्प्रतीतमनसामुपेयुषां
द्रष्टुमाहवनमग्रजन्मनाम् । आतिथ्यमनिवारितातिथिः
कर्तुमाश्रमगुरुम्स नाश्रमत् ।। 1552 ।। अतिथिषु साधु आतिथेयम् । ढन् । कुमारसंभवे-V. 31. तमातिथेयी बहुमानपूर्वया
सपर्यया प्रत्युदियाय पार्वती। भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्विशेषेप्वतिगौरवाः क्रियाः ॥ 1553 ।। अतिथिषु साध्वी आतिथेयी । ढजि ङीप् । अस्मिन्नेव ग्रन्थे श्लो. 1431. अतिथिषु साधूनि आतिथेयानि । अनर्घराघवे--IV. 69.
ग- हा वत्से जानकि, निशाचराणामातिथेयीभवितुं दशरथगृहे प्रविष्टासि ॥ 1564॥ भट्टिकाव्य-IV. 8.
वनेषु वासतेयेषु निवसम्पर्णसंस्तरे ।
शय्योत्थाय मृगान्विध्यन् नातिथेयो विचक्रमे ॥ 1555 || वसतौ साधुषु वासतेयेषु । वसतियोग्येषु । अतिथिषु साधुरातिथेयः । ढन् ।