________________
२५०३
पाणिनिसूत्रव्याख्या
१६३० | खः सर्वधुरात् । ( ४. ४,७८ )
सर्वधुरं वहतीति सर्वधुरीणः ।
अस्मिन्नेव ग्रन्थे श्लो० 1080. सर्वधुरीणः सर्वभारवाही । वप्रत्ययः ।
१६३१ | एकधुराल्लुक् च । (४.४.७९ )
एकधुरं वहति एकधुरीणः । एकधुरः ।
अनराघवे - I. 39.
कूर्मराजभुजगाधिपगोत्रश्रावदिक्करिभिरेकधुरीणः ।
भां प्रसूय कथमस्तु विगीतो हा परार्थविमुखो रघुवंशः ॥ 1529 ॥
एका चासौ धूच एकधुरा । 'ऋकपूः (सू. 940) इत्यादिना समासातोऽच् । 'खः सर्वधुरात् ' ( सू. 1680) इत्यनुवृत्तेः अनेन खः ।
अस्मिन्नेव प्रत्थे लो 1000 एकधुरं वहन्तीति एकधुरीणाः । समा इत्यर्थः । खः ।
१६३२ । शकटादण् । ( ४. ४.८० ) शकटं वहति शाकटो गौः ।
१६३३ | हलसीराट्ठक् । ( ४. ४.८१ )
हलं वद्दति हालिकः । सैरिकः । ' हलसीराट्ठक् ' ( सू. 1504 ) तस्येदमि - त्यर्थे ठक् । हालिकम् । सैरिकम् । मर्तजनहलात् ' ( सू. 1649 ) इति यत् ।
6
स्य कर्षो हल्यः ।
१६३४ | संज्ञायां जन्या । ( ४. ४. ८२ )
जनी वधूः । तां वहति प्रापयति जन्या ।
१६३५ | विध्यत्यधनुषा । ( ४. ४. ८३ ) द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यात् । पादौ विध्यन्ति पद्याश्शर्कराः । 'पद्यत्यत् दर्थे ' ( सू. 991 ) इति पादस्य पत् । अतदर्थे किम् । पादार्कमुदकं पाद्यम् निषेधात्पदादेशो न ।